शुक्रवार, 20 अक्टूबर 2023

पशुपक्षिणां ध्वनय:

sanskritprava




मयूरस्य केका। मयूरः कायति।🦚
गजस्य क्रोञ्चनम्। गजः क्रोञ्चति। 🐘
अश्वस्य ह्रेषा। अश्वः ह्रेषते। 🐎
सिंहस्य गर्जना। सिंहः गर्जति।🦁
शुनकस्य भषणं/बुक्कनम्।
शुनकः भषति/बुक्कति।🐕
वराहस्य घुरणम्।वराहः घुरति।🐷
कोकिलस्य कूजनम्। कोकिलः कूजति।🐦‍⬛
व्याघ्रस्य गर्जनम्।व्याघ्रः गर्जति।🐯
वृषभस्य उन्नादः। वृषभः उन्नदति।🐂
धेनोः रम्भः। धेनुः रम्भति।🐮
शुकस्य रटनम्। शुकः रटति।🦜
सर्पस्य फुत्कारः। सर्पः फुत्करोति।🐍
मण्डूकः रटरटायति।🐸
गर्दभस्य गर्दनम्। गर्दभः गर्दति।🫏
रासभस्य रासनम्। रासभः रासते।
उभावपि समानौ।
मधुकरस्य गुञ्जनम्। मधुकरः गुञ्जति।🐝
मशकस्य मशनम्। मशकः मशति। 🦟
बिडालः मीवति 🐈


कोई टिप्पणी नहीं: