गुरुवार, 10 जून 2021

देववाणीं वेदवाणीं मातरं वन्दामहे ।।

 

देववाणीं वेदवाणीं मातरं वन्दामहे

देववाणीं वेदवाणीं मातरं वन्दामहे । चिरनवीना चिरपुराणीं सादरं वन्दामहे ॥ ध्रु॥ दिव्यसंस्कृतिरक्षणाय तत्परा भुवने भ्रमन्तः । लोकजागरणाय सिद्धाः सङ्घटनमन्त्रं जपन्तः । कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥ १॥ भेदभावनिवारणाय बन्धुतामनुभावयेम । कर्मणा मनसा च वचसा मातृवन्दनमाचरेम । कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥ २॥ संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम । मानुकूलादर्शं वयं वै पालयित्वा दर्शयेम । जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥ ३॥ वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः । त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः । जन्मभूमिसमर्चनेन सर्वतः स्पन्दामहे ॥ ४॥ भारताः सोदराः स्मो भावनेयं हृदि निधाय । वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय । परमवैभवसाधनाया वरमहो याचामहे ॥ ५॥ देववाणीं वेदवाणीं मातरं वन्दामहे चिरनवीनां चिरपुराणीं सादरं वन्दामहे ॥



अवनितलं पुनरवतीर्णा स्यात्

 

अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा । धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः ॥ निपततु पण्डितहरशिरसि प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं पुनरपि वहताज्जनमनसि पुत्रसहस्रं समुद्धृतं स्यात् यान्तु च जन्मविकाराः ॥ ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम सर्वेषामपि तृप्तिहितार्थं स्वक्लेशं न हि गणयेम कृते प्रयत्ने किं न लभेत एवं सन्ति विचाराः ॥ या माता संस्कृतिमूला यस्या व्याप्तिस्सुविशाला वाङ्मयरूपा सा भवतु लसतु चिरं सा वाङ्माला सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूराः ॥ - डाॅ नारायणभट्टः

गरुडगमनस्तुतिः।

गरुडगमनस्तुतिः।


              गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम्

मनसि लसतु मम नित्यम् ।
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ ध्रु.॥

जलजनयन विधिनमुचिहरणमुख विबुधविनुत-पदपद्म
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ १॥

भुजगशयन भव मदनजनक मम जननमरण-भयहारिन्
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ २॥

शङ्खचक्रधर दुष्टदैत्यहर सर्वलोक-शरण
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ ३॥

अगणित-गुणगण अशरणशरणद विदलित-सुररिपुजाल
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ ४॥

भक्तवर्यमिह भूरिकरुणया पाहि भारतीतीर्थम्
मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ ५॥

इति जगद्गुरु श‍ृङ्गेरी पीठाधिपति भारतीतीर्थस्वामिना विरचितं महाविष्णुस्तोत्रं सम्पूर्णम् ।


रविवार, 1 नवंबर 2020

गुरोः पञ्चश्रेण्यः

 

प्रणामाः सादरम्

"देशस्य सर्वश्रेष्ठैः विचारकैः शिक्षकैः भवितव्यम्" - डा.सर्वपल्ली राधाकृष्णन्
ज्ञानम् अर्थात् गुरुः ।

गुरोः पञ्चश्रेण्यः ----

१. शिक्षकः - यः विद्यालयेषु अध्यापयति।
२. आचार्यः - यः स्वस्य आचरणेन अध्यापयति।
३. कुलुगुरुः - यः वर्णाश्रमधर्मानुसारं संस्काराणां ज्ञानं प्रददाति।
४. दीक्षागुरुः - यः परम्पराम् अनुसरन् स्वगुरोः आदेशेन आध्यात्मिक्यै उन्नत्यै मन्त्रदीक्षां प्रददाति।
५. गुरुः - समर्थः गुरुः अथवा परमगुरुः अर्थात् महान्, पूर्णचेतन्यरूपः पुरुषविशेषः इति।

लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति । कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति ।