वार्ताहरः - आचार्यदीनदयालशुक्ल:
२०/०२/२०२३
https://sanskritvarta.in/2023/02/20/there-are-many-opportunities-in-sanskrit-dr-madan-kumar-jhavarya/
आत्मानं न जानाति यो न जानाति संस्कृतम् आचार्यदीनदयालशुक्ल:
भारतीया संस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वैः विद्वद्भिः स्वीक्रियते । संस्कृतिः मानव-अन्तःकरणस्य अज्ञानं दूरीकरोति, चित्तभ्रममपहरति, ज्ञानलोकं प्रकाशयति च तस्य मूलं संस्कृतम् एव भवति अतः तादृशं लक्ष्यं मनसि निधाय संस्कृतस्य रक्षणाय सम्वर्धनाय उत्तरप्रदेशसंस्कृतसंस्थानद्वारा सञ्चालितभाषाशिक्षणकक्षान्तर्गतं बौद्धिकसत्रस्य आयोजनं कृतम्।अस्य सत्रस्य शुभारम्भः मङ्लाचरणद्वारा अभवत्। अतिथीनां परिचयः कार्यशालावृत्तकथनसत्रं च संयोजकेन प्रशिक्षकेण दीनदयालशुक्लवर्येण कृतम्। संस्थानस्य रूपरेखां व्यक्तिकुर्वन् तेन भणितं यत् संस्थानस्य स्थापना दिसम्बरमासस्य ३१ दिनाङ्के १९७६ तमे वर्षेऽभूत्। तदारभ्य संस्थानमिदं संस्कृतभाषां प्रति निरन्तरप्रयासरतेन विकासाय प्रयत्नशीलो वर्तते। प्रतिमासं ०३ तः ०४ सहस्रछात्र-छात्राः संस्कृतभाषां शिक्षन्तः सन्ति। अनेन सह वर्तमानाभाषाविषयकीं योजनामपि प्रस्तुतवान्। अवसेऽस्मिन् प्रतिभागिभिः अनुभवकथनं मुकुलकौशिकेन तथा चोत्तरीयामेरिकातः लक्ष्मीः एवञ्च मलेशियातः बाबूराम तथा पार्वती आशीषत्रिपाठी गीता शर्मादयोऽपि स्व-स्वानुभवकथनमकथयन्। कार्यक्रमेऽस्मिन् मुख्यवक्तृरूपेण सहायकाचार्येण डॉ ० मदनकुमारझावर्येण संस्कृतभाषायाः उपादेयता प्रकाशिता। सहैव वर्तमानसमये संस्कृतभाषाक्षेत्रे समुपलब्धावसरेभ्यः परिचयं कारितवान्। संस्कृतभाषा न केवलं कर्मकाण्डभाषा अपितु सर्वस्मिन् क्षेत्रे संस्कृतस्योपादेयता वर्तते इति तेन निगदितम्। तेनोदारितं यत् जनाः संस्कृतेन सर्वक्षेत्रेषु वृत्तिं प्राप्तुं शक्यन्ते।अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तय: तथा मानवस्य श्रेष्ठप्रवृत्तीनां सन्तुलनं भवति तथा आचारस्य पवित्रतायाः व्यवहाराणाम् उत्कृष्टतायाः च सम्यक् ज्ञानं भवति सा संस्कृतिः । अतः एवोक्तं मनुना – एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः ।(मनुस्मृतिः) इत्यादिद्युदाहरणै: प्रबोधितम्। मध्ये च दिव्यासाहनी द्वारा संस्कृतगीतं प्रस्तुतम्। मुख्यवक्त्रा कथितं यत् विना संस्कृतज्ञानेन भारतविषये वयं ज्ञातुमेव न शक्नुमः।संस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिध्ः ।
वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम् ॥
अतः वक्तुं शक्यते यत् संस्कृतिः संस्कृतम् अनयोर्मध्ये घनिष्ठतरः सम्बन्धः अस्ति । संस्कृतेः संरक्षणाय संस्कृतभाषा अनिवार्या । अस्माकं सभ्यता-संस्कृतिश्च संस्कृतग्रन्थेष्वेव दरीदृश्यते । संस्कृतेन सह संस्कृतेः सम्बन्धः यदि विच्छिन्नः भवति, तर्हि भारतीयसंस्कृतेः संरक्षणं न भवत्येव । अतः सर्वैः मिलित्वा संस्कृतभाषा पठनीया पाठनीया तथा च चहुदिक्षु प्रचारणीया प्रसारणीया च।कार्यक्रमेऽस्मिन्नुत्तरप्रदेशसंस्कृतसंस्थाननिदेशवर्यः विनयकुमारश्रीवास्तवः समस्तप्रतिभागीनां प्रशंसां कुर्वन् अकथयत् यत् संस्कृतशिक्षणयोजनेयं सर्वदा नैरन्तर्येण गतिशीला भविष्यति। अवसरेऽस्मिन् प्रशासनिकाधिकारी डॉ दिनेशमिश्रः, सर्वेक्षिका चन्द्रकला शाक्य एवं प्रशिक्षणप्रमुखः सुधिष्ठकुमारमिश्रः, प्रशिक्षणसमन्वयकः धीरजमैठाणी, समन्वयिका राधाशर्मादयः समुपस्थिताः आसन्।
1 टिप्पणी:
ओम्
एक टिप्पणी भेजें