बुधवार, 22 फ़रवरी 2023

निशुल्कं विदेशेषीयेभ्यः अपि संस्कृतं पाठयति संस्कृतशिक्षकः

 वार्ताहरः - डॉ.अरुणेशकुमारपाण्डेयः  २२/०२/२०२३  



 निशुल्कं विदेशेषीयेभ्यः अपि संस्कृतं पाठयति संस्कृतशिक्षकः।



भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति। दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् इति एतत्विचारान् तथा दृढ़सङ्कलपं स्वजीवने अङ्गीकृत्य काश्याः संस्कृतशिक्षिका दीनदयालशुक्लवर्यः ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य कक्षा: सञ्चाल्यन्ते। मूलतः एषः महोदयः उत्तरप्रदेशतः अस्ति तथा संस्कृतविषयमधिकृत्य अनेन काशीहिन्दूविश्वविद्यालयतः संस्कृतविषये परास्नातकं सम्पादितम्। संस्कृतभारतीद्वारा अपि नैकाः कक्ष्या चालयित्वा जनान् संस्कृतं पाठयति। आसु कक्षासु सर्वे न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति अपितु ते सर्वेऽपि आचरणं व्यवहारञ्चापि कुर्वन्ति । कक्ष्यासु ते वैदेशिकाः नियमितं समुपस्थिताः भवन्ति। संस्कृतसमुपासकाः तथा वाग्देव्याराधनेकृतसङ्कल्पवता संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति। येन तेषु संस्कार: व्यवहार: कृतज्ञता, समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति । अस्य प्रत्यक्षप्रमाणं वयं संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्ष्यासु दृष्टुं शक्नुमः । प्रत्येकस्मिन् सप्ताहे सत्रत्रयं प्रचलति । इदं सत्रम् अस्य फरवरीमासस्य प्रथमदिनाङ्कतः मार्चमासस्य प्रथमदिनाङ्कपर्यन्तं भविष्यति। प्रतिदिनं सायंकाले अष्टवादने सञ्चालित ऑनलाइनकक्षायां (Online Google Meet द्वारा) प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना, ध्येयमन्त्र: च कृत्वा धार्मिकमन्त्राणां पाठं कुर्वन्ति भवति । मिलित्वा एव स्वस्य अभ्यासं तथा भारतीयपरम्पराणाम् अध्ययनं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रमपि आयोजिता भवति। अस्मिन् सत्रे आहत्य पञ्चाशताधिका: वैदेशिकाः उपस्थिता: भवन्ति।

कोई टिप्पणी नहीं: