रविवार, 12 मार्च 2023
नय तव बालमिमम् यशोदे
शुक्रवार, 10 मार्च 2023
Sanskrit B.Ed Entrance Syllabus 2023 | शिक्षाशास्त्री संस्कृत सिलेबस
क्या आप Sanskrit B.Ed Entrance Syllabus डाउनलोड करना चाहते हैं, क्या आप Rashtriya Sanskrit Sansthan अथवा अन्य विश्वविद्यालय के b.ed entrance syllabus को ढूंढ रहे हैं तो आप बिल्कुल सही जगह पहुंचे हैं।
जी हां, यहाँ हम आपको Shiksha Shastri B.Ed Entrance Syllabus प्रदान कर रहे हैं।
इस वेबसाइट पर सभी संस्कृत परीक्षाओं का सिलेबस, नोट्स, पुराने पेपर, माॅक टेस्ट आदि विभिन्न प्रकार की सामग्री उपलब्ध है। इसके लिए इस वेबसाइट के मेनूबार में जाएं।
यहाँ हम आपको Sanskrit B.Ed Entrance Syllabus 2021, 2022, 2023 के अनुसार न्यू शिक्षा शास्त्री सिलेबस प्रदान कर रहे हैं। इसके अतिरिक्त Sanskrit bed Entrance Question Paper PDF, B ed Sanskrit Book यानि बीएड संस्कृत प्रवेश परीक्षा की बेहतरीन पुस्तक की जानकारी भी दे रहे हैं।
Sanskrit B.Ed Entrance Syllabus
भारत में बहुत सारे ऐसे विश्वविद्यालय हैं जो शिक्षा शास्त्री यानि संस्कृत में b.ed की डिग्री प्रदान करते हैं। इनमें से तीन केन्द्रीय संस्कृत विश्वविद्यालय काफी प्रसिद्ध हैं। पहला- राष्ट्रीय संस्कृत संस्थान नई दिल्ली (Central Sanskrit University)
दूसरा- लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विद्यापीठ एवं तीसरा राष्ट्रीय संस्कृत विद्यापीठ तिरुपति इन तीनों विश्वविद्यालय को हाल ही में Central Sanskrit University का दर्जा प्राप्त हुआ है। बहुत सारे संस्कृत छात्रों का सपना होता है कि वे इन विश्वविद्यालय में b.ed यानि शिक्षा शास्त्री करें,
लेकिन इसके लिए आपको सबसे पहले प्रवेश परीक्षा से गु
Sanskrit B.Ed Entrance Best Book 2023
शिक्षाशास्त्री की प्रवेश परीक्षा को पास करना इतना आसान भी नहीं है। इसके लिए आपको पुराने प्रश्नपत्रों को अच्छे से देखना होगा और शिक्षाशास्त्री यानि Sanskrit B.ed Entrance की Best Book पढनी होगी। यदि आप संस्कृत बीएड entrance की बेस्ट book के बारे में जानना चाहते हैं तो यहाँ क्लिक करें- Sanskrit B.ed Entrance Book 2023
Shiksha Shastri B.Ed Entrance Syllabus
यदि आप शिक्षाशास्त्री बीएड प्रवेश परीक्षा का पाठ्यक्रम प्राप्त करना चाहते हैं तो आगे उसका डाउनलोड लिंक दिया गया है। इसके अलावा अन्य किसी भी संस्कृत परीक्षा का सिलेबस, पुराने प्रश्नपत्र एवं नोट्स PDF डाउनलोड करने के लिए इस वेबसाइट के मेनूबार में जाएं।जरना पड़ता है। इन तीनों विश्वविद्यालय का Sanskrit B.Ed Entrance Syllabus समान ही है।
Sanskrit B.Ed Entrance Syllabus डाउनलोड करने के लिए यहां क्लिक् करें।
https://drive.google.com/file/d/1BpLTWDhhYBkG_4Fd41zqbw3G6_6Y5g1n/view?usp=share_link
विशेष ध्यातव्य है कि अब इन विश्वविद्यालयों की b.ed परीक्षा को CUET ने ले लिया है।
बुधवार, 8 मार्च 2023
संस्कृतभाषा
"संस्कृतभाषायाः महत्वम्" |
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।
संस्कृतम् भारतस्य विश्वस्य च पुरातनतमा भाषा। अन्यास भाषाणां तथा पुरातनं साहित्यमद्य नोपलभ्यते यथा पुरातनं संस्कृतसाहित्यम्। विश्वस्य पुरातनतमो ग्रन्थः ऋग्वेदः संस्कृतभाषयैव निबद्धः। इयमतीव वैज्ञानिकी भाषा, अस्या पाणिनिमुनिप्रणीतं व्याकरणमतीव वैज्ञानिकं यस्य साहाय्येन अद्यापि वयं तान् पुरातनग्रन्थान् अवबोधुं शक्नुमः।
संस्कृतमेव हि भारतम्। यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः। भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते। यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम्।।
संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते। अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते। संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति। प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम्।
संस्कृतसाहित्यम् अति समृद्धं विविधज्ञानमयं च वर्तते। अत्र वैदिकं ज्ञानमुपलभ्यते, यस्य क्वचिदपि साम्यं नास्ति। महाभारतं तु विश्वकोशरूपमस्ति। रामायणशिक्षाः दिशि दिशि प्रचरिताः। उपनिषद्भिर्वैदेशिकैरपि विद्वद्भिः शान्तिः प्राप्ता। कालिदासादीनां काव्यानाम् उत्कर्षस्य तु कथैव का।
चरकसुश्रतयोरायुर्वेदः, भारद्वाजस्य विमानशास्त्रम्, कणादस्य परमाणुविज्ञानम्, गौतमस्य तर्कविद्या, शुल्बसूत्राणां ज्यामितिविज्ञानम्, आर्यभटस्य खगोलशास्त्रम् इत्येवमादीनि अनेकानि विज्ञानानि शास्त्राणि च संस्कृतभाषोपनिबद्धान्येव। अद्यापि राजनीतिविषये शासनतन्त्रविषये च कौटिल्यस्य अर्थशास्त्रं मनुस्मृतिश्च मार्गप्रदर्शके स्तः।
वयं भारतीयाः। अस्माभिः स्वकीयं गौरवमयं वाङ्मयमधीत्यैव तदाधारे भविष्यनिर्माणं कर्तव्यं, तदैवात्मोत्कर्षः सम्भाव्यते। स च उत्कर्षः आत्माधिष्ठितो हृदयग्राही वास्तविकोन्नतिकारी भविष्यति। यानि राष्ट्राणि स्वगौरवं न विस्मरन्ति तान्येव सफलतायाश्चरमोत्कर्ष प्राप्नुवन्ति।
परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते।।
अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति।
एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः बटवत् ‘पट’ इति न पठ्यते। एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।
संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति।
ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते। संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-
“भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः”
अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि-
“कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति”
देवभाषा हि संस्कृतपदेनाभिधीयते इत्याचार्याः । 'संस्कृतं नाम दैवी वागन्वाख्याता मनीषिभिः' इति वचनात् । तस्य संस्कृतामिधानं प्रकृतिप्रत्यादिविभागैः संस्कृतत्वादिति मन्यते । इदमुच्यते यत्प्रथमं भाषा नितान्तमव्याकृताऽखण्डैवाऽऽसीत् ।सा च प्रतिपदपाठेनैबोपदिश्यते स्म । कथ्यते यद्वृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रोवाच' इति । तेन तदध्ययने महान परिश्रमः कालक्षयश्च आवश्यक आसीत् । तेन देवा इमां नो वाचं व्याकुरु'इति इन्द्रं 'प्रार्थयामासुः । इन्द्रश्च तां मध्यतोऽवक्रम्य प्रकृतिप्रत्ययविभागेन व्याकरोदिति । तेनैवेत्थं व्याकृतत्वादस्य संस्कृतमिति नाम सञ्जातमिति । ननु प्रकृतिप्रत्ययविभागस्तु अन्यास्वपि भाषासु भवत्येव । तेन कथं देवभाषैव संस्कृतमिति नाशङ्कितव्यम् । तस्यास्तथाभिधानं सर्वप्रथमत्वेन व्याकृतत्वात् । यद्यप्य" भिधानमिद लौकिकसाहित्ये एव दश्यते सम्मवतो भाषावबोधकत्वेन प्रथमभरतनाट्यशास्त्र एव तथाप्यस्य सम्बन्धो वैदिकपदै.सहापि नापलपितुं शक्यः । तदेतत्पर्यवस्यति यद्भाषा प्रथममखण्डाऽव्याकृता चासीत् । तस्य च व्याकृतं साहित्यिक रूपं संस्कृतपदेनाऽप्यभिधीयते । तत्संस्कृतरूपमनुमातुमशक्तैरभिधातृमिरवकीर्णं सत्प्राकृतं सजातम् । यथाऽऽह भर्तृहरिर्वाक्यपदीये -
दैवी वांगवकीर्णेय मशक्त रभिधातृमिः । इति ।
एवमेव नाट्यशास्त्रेऽप्युक्तं -
“एतदेव बिपर्यस्तं संस्कारगुणवजितम् ।
विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ।'
तेनदेमवधेयं यद्द वभाषाया व्याकृतं स्वरूपं संस्कृतमवकीर्णञ्च स्वरूपं प्राकृतमिति । अनेनैवाशयेनोक्त' भवेत् -
प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतमिति ।
अन्यथा व्याकरणनियमबद्धाया भाषायाः परिवर्तनं वा विकारः कथं कल्पितः स्यात् ।' । उक्तमेव वाक्यपदीयस्य स्वोपज्ञवृत्तौ ‘प्रकृतौ भवं प्राकृतं साधूनां शब्दानाम् । '' इति । तेनैव लौकिकसंस्कृतापेक्षया वैदिकभाषया सह प्राकृतभाषायाः । सान्निकट्यमपि एतदेव समर्थयति । यथां वेदे मूर्धन्यषकारस्य टवर्गसंयुक्तव खकारवदुच्चारणं यथा ‘प्रथमो दैव्यो भिषक' श्त्यत्र भिषक्पदे । प्राकृतेऽपि भिख- ।। .: गिति । लौकिकसंस्कृते तु भिषगेव ! यथैव सूर्यस्य वेदे सूज्य इत्युच्चारणं तथैव ।
प्राकृतेऽपि, यदा इत्यस्य वेदे ज्यदा इत्युच्चारणं प्राकृते जदा इति, यमित्यस्य । वेदे ज्यमिति प्राकृते ‘जम्' इत्युच्चारणम् । तथैव वेदे न पदभक्तिः प्राकृतेऽपि तथैव । वेदे प्रतिपालिता स्वरभक्तिः प्राकृतेऽपि तथैव । संस्कृतस्य क्लिष्टत्वं संश्लेषणात्मकत्वञ्ब प्राकृतं नैव गृह्णातिं । लौकिकसंस्कृते अप्रथुक्तानामपि वैदिकशब्दांनों प्राकृते तत्समत्वेन वा तद्विकृतित्वेन प्रयोगश्चेदमेव तथ्यं सूचयति । ' तदित्थं वेदसम्मताऽपि. भाषा कालान्तरेण वर्णागमवर्णलोपवर्णविपर्यय। अर्थसङ्कोचविस्तारपार्थक्यादिभाषाविकारनियमैरवक्रान्ता प्रवर्धमानप्राकृतप्रयोग-समवकीर्णा च पुनर्वैयाकरणैः समयानुकूलं परिष्कृता सती लौकिकसंस्कृतसंज्ञां लेभे । तेनैव पाणिनिस्तां भाषाशब्देन लौकिकशब्देन च गृह्णाति । ‘भाषायां सद' ‘सर्वत्र विभाषा गोः' इत्यादिवाक्यैः ।लोकशब्दश्चोत्र, जनसामान्यवचनपरः । तत्र तत्र वैदिकशब्दानां कृते पृथगेव सूत्राण्यपि रचितानि यानि प्रक्रियाकौमुदीषु वैदिकप्रक्रिया नाम्ना पृथक् सङ्गृहीतानि ।
वैदिकशब्देषु प्राकृतशब्दसम्मिश्रणादेव लौकिकसंस्कृतं समुत्पन्नम् । एवमेब कौकिकसंस्कृतेऽपि प्राकृतप्रभावप्रवेशादेव शाखाः सञ्जाताः । तादृशप्रतिशाखप्रचलितरूपाणि सङ्गृह्य पाणिनिना तस्य परिनिष्ठितं रूपं निरूपितम्। तत्रापि यदनुक्त वा दुरुक्त' वा तद्वतककारेण साधितं 'यवनाल्लिप्याम् । इत्यादिभिर्वातकैः । तच्च महाभाष्यकारेण सर्वं सङ्गृह्य स्थिरीकृतमिति साम्प्रतिको संस्कृतभाषा मुनित्रयप्रसादाप्तेति रहस्यम् । इयमेव देवभाषा सर्वविधभाषा जननी ।तामेव पाश्चात्या विचक्षणी ‘भारोपोय' शब्देनाह्वयन्ति । संज्ञा तु या काऽपि स्याद्भारोपीयो भारतेरानीया, वाऽन्यांपि, मूलतत्वं तु , सैव देववाणी या तामनुकर्तुमशक्त: स्वानुकूल्येन पृथग्रूपेणोच्चार्यते। 'दुहितर्' इति सम्यगुच्चारितुमशक्त : ‘डटर्' इति कथनमात्रेण तस्य मूलरूपं तु नैव विपद्यते । हेमदत्तस्य ‘हेल्मट' इति लक्ष्मीदत्तस्य ‘स्मिथ इति, कामं कश्चिद् ब्रूपात् किन्तु तल्लेखने तु तेऽपि हेमदत्त एव लिखन्ति ।
संस्कृतभाषा केवलं साहित्यिकभाषेवाऽऽसीन्न तु व्यवहारभाषेति केचन निरर्गलं तर्कमप्युपस्थापयन्ति स्ववैचक्षण्यप्रदर्शनाय । किन्तु तथ्यं तद्विपरीतमेव । संस्कृतं हि प्राचीनकाले नितान्तमेव व्यावहारिकी भाषाऽप्यासीदिति बहुविधप्रमाणतो ज्ञायते । प्रथमन्तु तस्य शाखावत्वमेव प्रमाणम् । सामान्यतः परिवर्तशीलत्वमेव जीवितभाषाया भाषितभाषायाश्च लक्षणम् । यदि संस्कृतं हि भाषितभाषा न स्यात्तदा तत्र विकासोऽपि न स्यान्नचार्थविस्तार सोचावधि नैव च शाखाभेदः किन्तु संस्कृते एषां सर्वेषामेव समुपस्थितेः प्राक्काले संस्कृत भाषितभाषा आसीदिति स्पष्टमेव कामं तस्य प्रादेशिकता सीमिता आसीन। वाल्मीकिरामायणाज्ज्ञायते यत्तदा द्विजातयः (त्रयो वर्णाः) संस्कृतां नित दन्ति स्म । तत्समये द्विजातिप्रयुक्त तरजातिप्रयु क्तभाषयोरन्तरमासीत् । . तिप्रयुक्ता भाषा देवभाषेवाऽऽसीत् मनुष्यप्रयुक्ता तु तद्भिन्ना मानुषी सं अशोकवनप्राप्तो हनुमान् विचिन्तयति -
अहं ह्यतितनुश्चैव वानरश्च विशेषतः बाचञ्चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।
यदि बाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति।। इति।
यदि अहं द्विजातिरिव संस्कृतां वाचं ब्रवामित मां रावणं मत्वा भीता भविष्यति । तेनाहं मानुषीमेव किन्त वाचं वच्मीत्यस्याशयः । अनेनैतदपि सिध्यति यत्कामं मा थगेवाऽऽसीत्किन्तु तस्या अपि द्वे रूपे अ रस्तां संस्कृतम मानुषीभाषाभाषिणोऽपि द्विजातिभाषां संस्कृतं सम्यग्जानन्ति व रामायणे ‘बहु, व्याहरताऽनेन न किञ्चिदपशब्दितम्' भाषणे साधुशब्दानामपशब्दानाञ्च प्रयोगस्य प्रचलनं तथैव इत धुशब्दज्ञानं सिध्यति । 'विषयेऽस्मिन् बिश्वनाथाचार्यः कथयति "या भाषा सम्भाषणेषु प्रयुज्यते तत्र परिवर्तन स्वाभाविकमेव । वैदिकलौकिकसंस्कृतंयोः । परस्परसादृश्यं विलोक्य लौकिकसंस्कृतं वैदिकसंस्कृतस्यैव रूपान्तरमिति ।। प्रतिभाति । भाषापरिवर्तनेन सह तद्वयाकरणस्यापि परिवर्तनं सुनिश्चितम् । वैदिकलौकिकसंस्कृतव्याकरणयोस्तुलनया द्वयोरप्येतयोभषयोर्भेदज्ञानं भवत्येव इति ।[४] स च संस्कृतभाषा पतञ्जलिकालपर्यन्तमपि जनभाषाऽऽसीत् । तदनन्तरं सा शिष्टानामेव भाषात्वेनावशिष्टा। केचन वैदिकी भाषा कदाचित्सम्भाषणे नाऽऽसीत् । सा तु वेदवदनादिरपौरुषेया चेति मंन्यन्ते किन्तु तच्विन्त्यमेव यतो वेदे एंव ‘तां विश्वरूपा पशवो वदन्ति' “तस्माद् ब्राह्मणा उभय वाचं क्दन्ति, या च देवानां या च मनुष्याणामिति इत्यादि कथनात् तस्याः भाषितभाषात्वं सिध्यत्येव । कि यथेमां वाचं कल्याण आवदानि जनेभ्यः''; “सङ्गच्छध्वं संवदध्वं” इत्यादिकथनमभाषितभाषायामुपयुज्यते । कदापि नैव ।
यास्कादारभ्य सर्वै एव प्राञ्चो वैयाकरणाः संस्कृत भाषापदेन व्यपदिशन्ति । भाषितत्वमेव भाषाया भाषात्वम् । इराह्वयने अन्तिमः स्वरः। प्लुतो भवति इति भाषितभाषायी लक्षणं विहाय किमन्यत् ? कम्बोजेष्वेवेति । कि संस्थितभाषालक्षणम् ? यदि संस्कृतं न जनभाषा, भवेत्तदा पालिपालिता बौद्धाः किनिमित्तं संस्कृते ग्रन्थाः प्रणयेयुः ? स्वयमेवाश्वघोषः पालि विहाय संस्कृते काव्यं प्रणिनाय । शिलालेखानां नवतिप्रतिशतभागो राजशासनानां तदधिकप्रतिशतभागः संस्कृते एव लिखितो दृश्यते इति परं प्रमाणं संस्कृतस्य भाषितभाषात्वे । अभिनयार्थं प्रणीतेषु नाटकेषु प्रयुक्ता भाषा कथन्नाम भाषितेतरा भवेत् । पाणिनिः संस्कृतशब्दानां प्राच्यौदीच्यदाक्षिणात्यरूपाणि स्मरति । तथा तु तदैव सम्भवति यद्रा सा भाषितावस्थाका भवेत् । एकस्यैव शब्दस्य एकाधिकरूपाण्यपि भाषितत्वमधिकृत्यैवं भवति तव, ते, मम, मे, मो, मा, गवाक् शब्दस्य तु नवाधिकशतरूपाणि च भाषायाः भाषितत्वस्यैव लक्षणम्।। व्याकरणानां बाहुल्यं तत्रापि मतान्तरं यथा 'लोपः शाकल्यस्य’, ‘अवङ् स्फोटायनस्य,' ‘ऋतो भारद्वाजस्य, चेत्यादि अपि भाषाया भाषितत्वस्यैव परिचायकम् । सर्वानतिशय्य सम्प्रसारणं यण्विकल्पश्च भाषाया जीवितत्वस्य परिचायकः ।
यण्विकल्पो यथा त्र्यम्बकं यजामहे, त्रियम्बकं संयमिनं ददर्श' इति ।। सम्प्रसारणं तु इग्यणः सम्प्रसारणम् । तथैव ‘पारम्पर्यादपभ्रशो विगुणेष्वाभिधातृषु' इति 'दैवी वाग्व्यवकीर्णेयमशक्त रभिधातृभिः', इत्यपि च भाषाया भाषितत्वस्यैव सूचकम् । पृषोदरादिव्यवस्थाऽपि भाषाया भाषितत्वं जनयति । न कुतोऽपि सिद्ध प्रयोगमागते च शब्दे, पृषोदरादित्वात्साधुरित्युच्यते । भाषायाः संस्थितत्वे काऽऽवश्यकताऽस्या व्यवस्थायाः । ‘पृषोदरादीनि यथोपदिष्टम् पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः इति । वर्णमांत्रभेदेन अर्थान्तरवाचकत्वमपि भाषितभाषाया एव लक्षणम् । संस्कृते तथाविधा बहवः शब्दा दृश्यन्ते यथा गर-गल-ग्रह-ग्लहशब्दाः । सर्वैव नामधातुप्रक्रिया जीवितभाषयामेव सम्भवति व्यवहारसौकर्याय अभाषितभाषायायनुनासिकनिरनुनासिकयोः को भेदः ? गुणे अर्परत्वञ्चोच्चारणसौकर्येणैव भवति । तदेतानि अन्यानि च प्रमाणानि संस्कृतभाषाया भाषितत्वं साधयन्ति । किर्यत्कालपर्यन्तमेषा भाषिताऽऽसीदित्यपरः प्रश्नः । सामान्यतो गौतमबुद्धसमये पालीभाषाया 'भाषितत्वं वौद्धग्रन्थतो ज्ञायते । तेन गौतमस्थितिकाले संस्कृतं हि शिष्टानामेव द्विजातीनां भाषितभाषाऽऽसीदिति स्वीकर्तव्यमेव । सम्भवति प्राचीनकालादेवं जनाः संस्कृतं तु जानन्ति स्म किन्तु व्यवहारे द्विजातयः संस्कृतां वाचमितरे तु मानुषीं वाचं पालीप्रभृति प्रयुञ्जन्ति स्मेति तथ्यविश्लेषणतो ज्ञायते । शनैः शनैः संस्कृतभाषा द्विजातिष्वेव सीमिता सञ्ज़ाता। द्विजातयोऽपि परस्परालापे संस्कृतस्य इतरैः सहाला मनुष्याः प्रयोगं कुवन्ति स्मेति 'तस्माद् ब्राह्मणा उभयीं याचं वदन्ति या च देवानां या च मनुष्याणाम्' इति निरुक्तवचनात् ज्ञायते ।
पाणिनिकाले संस्कृतं नितान्तमेव शिष्टभाषात्वेनावशिष्टाऽऽसीत् । पतञ्जलिकाले भाषाया' मपभ्रंशस्य एतादृशं. बाहुल्यमासीद्यद् द्विजातयोऽपि तत्प्रमावादात्मानं नैव रक्षितुं समर्था आसन् इति ‘एकस्य शब्दस्य बहवोऽपभ्रशाः' इति पतञ्जलिवचनाज्ञायते । तेनैव स द्विजातिष्वपि ब्राह्मणेन नापभषितवै नापम्लेच्छितवै ‘इति. निदशति । पतञ्जल्यनन्तरं तु संस्कृतं केवलं पण्डितभाषैव समजायत । तस्य जनसामागान्यसम्पर्कः प्रायो विच्छिन्न एव । पुनश्च गुप्तकाले भोजसमये च संस्कृतस्य प्रचारस्तु सञ्जातः किन्तु तस्य जनसामान्यसम्पर्कस्तु, नैव पुनरुदितः । सम्प्रति तु पण्डितसमाजेऽपि विरला एवं जनाः संस्कृतमाश्रित्यं संल्लापं कुर्वन्ति ।
साम्प्रतिककाले संस्कृतस्य माहात्म्यं देशभाषासु गीयते संस्कृतस्य ग्रन्था देशभाषानाम्ना प्रकाशिता अपि दृश्यन्ते यथा ‘हिन्दी :: दशरूपकं' वा 'हिन्दो नाट्यशास्त्र'मित्यादि । प्रायः समस्ता एवं संस्कृतग्रन्थाः वेदाश्च देशभाषायामनूदिता अपि दृश्यन्ते । यत्र कुत्र तु देशभाषायाः संस्कृतस्य : पर्यायवाचककत्वमपि सम्मतं दृश्यते । काऽतःपरं विडम्बना संस्कृतस्य । अपरञ्च परीक्षासौकर्यदृष्ट्या पुस्तकानि खण्डीकृत्य . प्रकाश्यन्ते तान्यपि प्रश्नोत्तरसंहितया छिन्नाङ्गान्येव । आधुनिकपण्डितैर्यथामति व्याख्यायन्ते च । ग्रन्थाः तथाकरण क्वचित्तु व्याख्या मूलप्रतिगामिन्यपि दृश्यते । भवतु तावत् । । संस्कृतं हि आर्यजातेः प्राणभूता भाषा । अस्यामेव पूबैजना विचिन्तयन्ति विचारयन्ति स्म । आधुनिकास्तु देशभाषायां विचिन्तयन्ति तदेवानुद्य संस्कृतमाश्रित्यावतारयन्तीति । संस्कृतस्य मौलिकत्वं तु प्रणष्टमेव । संस्कृतस्य मूलवैशिण्टयसंरक्षणाथ पूर्वजनी हि दत्तजीवना असन् किन्तु सम्प्रति न कोऽपि तन्निमित्तं प्रयतत इति कस्य सहृदयस्य न दूयते चेतः । इदं प्रागेवोक्त यद्देवभाषा व्याकृतत्वात्संस्कृतामिधानं लेभे इति । इन्द्रो ह वै प्रथमो व्याकर्ता आसीदित्यपि उक्तमेव । आगामिप्रकरणे व्याकरणपरम्पराविषये किञ्चिद्वक्ष्यते ।
- संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।
- संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।
- संस्कृतभाषैव भारतस्य प्राणभुताभाषा अस्ति राष्ट्रस्य ऐक्य च साधयति भाषा अस्ति।
- संस्कृतभाषा जिवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति।
- सर्वासामेताषा भाषाणाम इय जननी।
- संस्कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।
- वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।
- इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।
- संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।
- संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति।
संस्कृतं किमर्थम् आवश्यकम् ?
अभ्यासाय वाक्यानि
sanskritpravah