नय तव बालमिमम् । यशोदे ।
चेष्टितमस्य सोढुमशक्यम् ॥ नय तव ॥
विशति स मन्दं विजनं गेहम् ।
चलति बिडालसमम् । कृष्णः ॥
दधिनवनीतं घृतमवशेषं
हरति कलशपूर्णम् । चोरः ॥ नय तव ॥
जलमानेतुं कूपगतानां
चरणं वारयति । स्त्रीणाम् ॥
स्नानपराणां कुलयुवतीनां
वसनं चोरयति । कृष्णः । नय तव ॥
गोव्रजमध्ये नटनमनोजं
वेणुं वादयति । मृदुलम् ॥
वत्सं कृत्वा रज्जुविहीनं
क्षीरं पाययति । धेनोः ॥ नय तव ॥
- गु. गणपव्यहोळळ
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें