शुक्रवार, 22 अक्टूबर 2021

अभिज्ञानशाकुन्तलम् - चतुर्थोऽङ्कः

 

अभिज्ञानशाकुन्तलम्
चतुर्थोऽङ्कः
कालिदासः
पञ्चमोऽङ्कः →




(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ)
अनसूया- प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्
चिन्तनीयम् ।
प्रियंवदा- कथमिव ?
अनसूया- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं
प्रविश्यान्तःपुरसमागत इत्यागतं वृत्तान्तं स्मरति वा न वेति ।
 
प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा- कथमिव ?
अनसूया- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत् प्रथमः सङ्कल्पः । तं
यदि दैवमेव सम्पादयति, नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रियंवदा- (पुष्पभाजनं विलोक्य) सखि, अवचितानि बलिकर्म पर्याप्तानि
कुसुमानि ।
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
प्रियंवदा- ननूटजसन्निहिता शकुन्तला ?
अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
 ::(नेपथ्ये) आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव ॥१॥
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य)न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया
गत्या प्रतिनिवृत्तः ।
अनसूया- कोऽन्यो हुतवहाद्दग्धुं प्रभवति ? गच्छ, पादयोः प्रणम्य निवर्तयैनं,
यावदहमर्घोदकमुपकल्पयामि ।
(इति निष्क्रान्ता)
प्रियंवदा- तथा
अनसूया- (पदान्तरे स्खलितं निरुप्य) अहो,आवेगस्खलितया गत्या –
प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् ! (इति पुष्पोच्चयं रुपयति )
(प्रविश्य)- प्रियंवदा- सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृहणाति ? किमपि
पुनः सानुक्रोशः कृतः ।
अनसूया- (सस्मितम्) तस्मिन् बह्वेतदपि । कथय ।
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो
मर्षयितव्य” इति ।
अनसूया- ततस्ततः ।
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-
दर्शनेन शापो निवर्तिष्यते” इति मन्त्रयमाण एवान्तर्हितः ।
अनसूया- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन
स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनध्दम् । तस्मिन्
स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा
विभावयति । किं पुनरागन्तुकम् ।
अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु
प्रकृतिपेलवा प्रियसखी !
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
विष्कम्भः
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या
इति (परिक्रम्यावलोक्य च )
हन्त प्रभातम् ! तथा हि, -
यात्येकतोऽस्तशिखरं परिरोषधीना –
माविष्कृतारुणपुरः सर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्वयसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥२॥
अपि च ,
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीय शोभा
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्र सुदुःसहानि ॥३॥
अनसूया- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन
राज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(निष्क्रान्तः)
अनसूया- प्रतिबुध्दापि किं करिष्यामि? न म उचितेष्वपि निजकरणीयेषु
हस्तपादं प्रसरति ! काम इदानीं सकामो भवतु, येनासत्यसन्धे
जने शुध्दहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष
विकारयति । अन्यथा, कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः
कालस्य लेखमात्रमपि न विसृजति ? तदितोऽभिज्ञानमङ्गुलीयकं
तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? ननु
सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य
तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां
निवेदयितुम् । इत्थंगतेऽस्माभिः किं करणीयम् ?
(प्रविश्य) प्रियंवदा- (सहर्षम्) सखि, त्वरस्व त्वरस्व शकुन्तलायाः
प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि, कथमेतत् ?
प्रियंवदा- श्रृणु । इदानीं सुखशायितपृच्छिका शकुन्तलासकाशं गतास्मि ।
अनसूया – ततस्ततः ?
प्रियंवदा- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवम्
अभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक
एवाहुतिः पतिता ।वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीयासि
संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः समीपं विसर्जयामीति।
अनसूया- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया- (सविस्मयं) कथमिव ?
प्रियंवदा- (संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता
भवतु ।
अनसूया- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक, तदिमां
हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा- तथा क्रियताम् । (अनसूया निष्क्रान्ता, प्रियंवदा नाट्येन सुमनसो
गृहणाति)
(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः
ऋषयः शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता) अनसूया – सखि, एहि । गच्छावः । (इति
परिक्रामतः)
प्रियंवदा- (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति ।
उपसर्पाव एनाम् । (इत्युपसर्पतः) (ततः प्रविशति यथोद्दिष्टव्यापारा
आसनस्था शकुन्तला )
तापसीनामन्यतमा- (शकुन्तलां प्रति) जाते, भर्तुर्बहुमानसूचकं महादेवीशब्दं
लभस्व ।
द्वितीया- वत्से, वीरप्रसविनी भव ।
तृतीया- वत्से, भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते
मङ्गलसमालम्भनं परिचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य
नाट्येन प्रसाधयतः )
प्रियंवदा- आभरणोचितं रुपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ)
उभे- इदमलङ्करणम् । अलंक्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
गौतमी- वत्स नारद, कुत एतत् ?
प्रथमः- तातकाश्यपप्रभावात् ।
गौतमी- किं मानसी सिध्दीः?
द्वितीयः- न खलु । श्रूयताम् । तत्र भवता वयमाज्ञाप्ताः शकुन्तला-
हेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं-
क्षौमं केनचिदिन्दुपाडु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केन चित् ।
अन्येभ्यो वनदेवताकरतलेरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्दिभिः ॥५॥
प्रियंवदा- (शकुन्तलां विलोक्य) हला, अनयाभ्युपपत्या सूचिता ते
भर्तुगेहेऽनुभवितव्या राजलक्ष्मीः । (शकुन्तला व्रीडां निरुपयति)
प्रथमः-गौतम, एह्येहि । अभिषेकावतीर्णाय काश्यपाय वनस्पतिसेवां
निवेदयावः ।
द्वितीयः- तथा । (इति निष्क्रान्तौ)
सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते
आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
(ततः प्रविशति स्नानोलेपाः काश्यपः)
काश्यपः-
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्बितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति)
सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं
क्षौमयुगलम् ।
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
काश्यपः – वत्से,
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥७॥
गौतमी- भगवन्, वरः खल्वेषः । नाशीः ।
काश्यपः- वत्से । इतस्सद्यो हुताग्नीं प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति )
काश्यपः – (ऋक्छन्दसाऽऽशास्ते)
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥८॥
प्रतिष्ठस्वेदानीम् - (सदृष्ठिक्षेपम्) क्व ते शर्ङ्गरवमिश्राः ?
(प्रविश्य) शिष्याः – भगवन्, इमे स्मः ।
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
अद्ये वः कुसुम प्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥९॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥१०॥
(आकाशे)
रम्यान्तरं कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥११॥
(सर्वे सविस्मयमाकर्णयन्ति )
गौतमी- जाते, ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनं देवताभिः । प्रणम
भगवतीः ।
शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम्) हला प्रियंवदे ! आर्यपुत्र-
दर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः
प्रवर्तेते ।
प्रियंवदा- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य
तपोवनस्यापि तावत्समवस्था दृश्यते !
उद्गलितदर्भकबला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥१२॥
शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला –( उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने; चूतसङ्गतापि मां
प्रत्यालिङ्गेतोगताभिः शाखाबहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु
 भविष्यामि ।
काश्यपः-
सङ्कल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयम्
अस्यामहं त्वयि च संप्रति वीतचिन्तः ॥१३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
शकुन्तला- तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा
भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः- नेदं विस्मरिष्यामः ।
शकुन्तला-( गतिभङ्गं रुपयित्वा) को नु खल्वेष निवसने मे सज्जते ?
काश्यपः- वत्से,!
यस्य
 त्वया व्रणविरोपणामिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविध्दे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१४॥
शकुन्तला – वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि ? अचिरप्रसूतया
जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां
तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
काश्यपः-
उत्पक्ष्मणोर्नयनयोरुपरुध्दवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥१५॥
शार्ङ्गरवः – भगवन् । ओदकान्तात् स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं
सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।
(सर्वे परिष्क्रम्य स्थिताः)
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः
सन्देष्टव्यम् ? (इति चिन्तयति)
शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया- सखि, मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम्
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥१६॥
काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य
वक्तव्यः ।
शार्ङ्गरवः- आज्ञापयतु भगवान् ।
काश्यपः-
अस्मान्साधु विचिन्त्य संयमधनानुच्चै कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥१७॥
शार्ङ्गरवः – गृहीतः सन्देशः ।
काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
काश्यपः- सा त्वमितः पतिकुलं प्राप्य,
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१८॥
कथं वा गौतमी मन्यते ?
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
काश्यपः- वत्से, इमे अपि प्रदेये । न युक्तमनयोः तत्र गन्तुमु । त्वया सह
गौतमी यास्यति ।
शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।
काश्यपः- वत्से, ! किमेवं कातरासि ?
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीनार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥१९॥
(शकुन्तला पितुः पादयोः पतति)
काश्यपः- यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य) हला, द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वामाकम्पितास्मि !
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
काश्यपः- श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्ता तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥२०॥
गौतमी- जाते, ! परिहीयते गमनवेला ! निवर्तय पितरम् । अथवा चिरेणापि
पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः- वत्से, उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला – (भूयः पितरमश्लिष्य) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं
मम कृत उत्कण्ठस्व।
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
 ::(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ- (शकुन्तलां विलोक्य) हा धिक् ! हा धिक् ! अन्तर्हिता शकुन्तला
वनराज्या ।
काश्यपः – (सनिः श्वासम्) अनसूये, ! गतवती वा सहचारिणी । निगृह्य
शोकमनुगच्छत मां प्रस्थितम् ।
उभे- तात । शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः ?
काश्यपः – स्नेहप्रवृत्तिरेवंदर्शिनी (सविमर्शं परिक्रम्य ) हन्त भोः । शकुन्तलां
पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ?
अर्थो हि कन्या परकीय एव
तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा ॥२२॥
(इति निष्क्रान्ताः सर्वे)
॥ इति चतुर्थोऽङ्कः ॥

अभिज्ञानशाकुन्तलम् - द्वितीयोऽङ्कः

 

अभिज्ञानशाकुन्तलम्
द्वितीयोऽङ्कः
कालिदासः
तृतीयोऽङ्कः →

(ततः प्रविशति विषण्णो विदूषकः)
विदूषकः - (निःश्वस्य) भो दिष्टम् ! एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन
निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्णेऽपि
ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतेऽटवी !
पत्रसङ्करषायाणि कटुकानि गिरिनदी जलानि पीयन्ते । अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे रात्रावपि
निकामं शयितव्यं नास्ति । ततः महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहण-
कोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति ।
ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मासु अवहीनेषु
तत्रभवतो मृगानुसारेणाश्रमं प्रविष्टस्य तापसकन्यका शकुन्तला
ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि च
करोति ! अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् ।
का गतिः ! यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च),
एष एव आगच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा
स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ! (इति दण्डकाष्ठमवलम्ब्य स्थितः ।)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)
राजा - कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥१॥
(स्मितं कृत्वा) एवमात्माभिप्रायसंभावितेष्टवनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुध्दया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२॥
विदूषकः- (तथास्थित एव) भो वयस्य, न मे हस्तपादं प्रसरति । तद्वाङ्मात्रेण्
जाप्यसे ।
राजा - (सस्मितं) कृतोऽयं गात्रोपघातः ?
विदूषकः- कुतः किल स्वयमक्ष्याकृलीकुत्याश्रुकारणं पृच्छसि ?
राजा - न खल्वगच्छामि ।
विदूषकः- भो वयस्य, यद्वेतसः कुब्जलीलां विडम्बयति तत् किमात्मनः
प्रभावेण, ननु नदीवेगस्य ?
राजा - नदीवेगस्तत्र कारणम् ।
विदूषकः- ममापि भवान् ।
राजा - कथमिव ?
विदूषकः – एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया
भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभित-
सन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि
विस्रष्टुं मामेकाहमपि तावद्विश्रमितुम् ।
राजा - (स्वगतम्) अयं चैवमाह ! ममापि काश्यपसुताम् अनुस्मृत्य
मृगयाविक्लवं चेतः ! कुतः, -
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्ध विलोकितोपदेशः ॥३॥
विदूषकः - (राज्ञो मुखं विलोक्य) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते
अरण्ये मया रुदितमासीत् !
राजा - (सस्मितम्) किमन्यम् ? अनतिक्रमणीयं मे सुहृद्वाक्यम् इति
स्थितोऽस्मि ।
विदूषकः -चिरं जीव । (इति गन्तुमिच्छति)
राजा - वयस्य, तिष्ठ । सावशेषं मे वचः ।
विदूषकः - आज्ञापयतु भवान् ।
राजा - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् ।
विदूषकः - किं मोदकखादिकायाम् ? तेन ह्ययं सुगृहीतः क्षणः ।
राजा - यत्र वक्ष्यामि । कः कोऽत्र भोः ?
(प्रविश्य) दौवारिकः-(प्रणम्य)आज्ञापयतु भर्ता ।
राजा - रैवतक, सेनापतिस्तावदाहूयताम् ।
दौवारिकः – तथा (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष
आज्ञावचनोत्कण्ठो भर्तेतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।
सेनापतिः- (राजानमवलोक्य) दृष्टदोषापि स्वामिनि मृगया केवलं गुणायैव
संवृत्ता । तथा हि देवः,-
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
उपचितमपि गात्रं व्यापतत्वादलक्ष्यं
गिरिजर इव नागः प्राणसारं बिभर्ति ॥४॥
(उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्र अवस्थीयते ?
राजा - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापतिः- (जनान्तिकं) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्त-
वृत्तिमनुवर्तिष्ये ।( प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव
निदर्शनम् !
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥५॥
विदूषकः - अपेहि, रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णक्षस्य
कस्यापि मुखे पतिष्यसि ।
राजा - भद्र सेनापते, आश्रमसन्निकृष्टे स्थिता स्मः । अतस्ते वचो
नाभिनन्दामि । अद्य तावत् ;
गाहन्तां महिषा निपानसलिलं श्रृङ्गैर्मुहुस्ताडितं
छायाबध्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्ध क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मध्दनुः ॥६॥
सेनापतिः- यत्प्रभविष्णवे रोचते ।
राजा - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेध्दव्याः । पश्य;
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद्वमन्ति ॥७॥
सेनापतिः- यदाज्ञापयति स्वामी ।
विदूषकः - ध्वंसतां त उत्साहवृत्तान्तः । (निष्क्रान्तः सेनापतिः)
राजा - (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेषम् । रैवतक,
त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः - यद्देव आज्ञापयति । (इति निष्क्रान्तः)
विदूषकः - कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन् पादपच्छायो-
विरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि
सुखासीना भवामि ।
राजा - गच्छाग्रतः ।
विदूषकः - एतु भवान् (इत्युभौ परिक्रम्योपविष्टौ)
राजा - माधव्य, अनवाप्तचक्षुः फलोऽसि । येन त्वया दर्शनीयं न दृष्टम्
विदूषकः - ननु भवानग्रतो मे वर्तते !
राजा - सर्वः कान्तमात्मीयं पश्यति । अहं तु तामेवाश्रमललामभूतां
शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः - (स्वगतम्) भवतु । अस्यावसरं न दास्ये । (प्रकाशम्) भो वयस्य,
ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा - सखे, न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥८॥
विदूषकः – (विहस्य) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्त्रिण्यामभिलाषो
भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।
राजा - न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा - वयस्य, किं बहुना ?
चित्रेनिवेष्य परिकल्पिततत्त्वयोगा
रुपोच्चयेन मनस विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुविभुत्वमनुचिन्त्य वपुश्च तस्याः ॥९॥
विदूषकः - यद्येवं प्रत्यादेश इदानीं रुपवतीनाम् ।
राजा - इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः
अनाविध्दं रत्नं मधुनवमनास्वादितरसम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं किमिह समुपस्थास्यति विधिः ॥१०॥
विदूषकः- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन
इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा - परवती खलु तत्र भवति । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः - अथ भवन्तमन्तरेण कीदृशस्तस्याः दृष्टिरागः ?
राजा - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु –
अभिमुखे मयि संहृतमीक्षणं
हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥११॥
विदूषकः – न खलु दृष्टमात्रस्य तवाङ्गं समारोहति ।
राजा - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥१२॥
विदूषकः- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा -सखे, तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्
केनापदेशेन पुनराश्रमपदं गच्छामः ।
विदूषकः - कोऽपरोऽपदेशो युष्माकं राज्ञाम् ? नीवारषष्ठ भागमस्माकमुपह-
रन्त्विति ।
राजा - मूर्ख, अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि
विहायाभिनन्द्यते । पश्य ,-
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपः षडभागमक्षय्यं ददत्यारण्यका हि नः ॥१३॥
(नेपथ्ये) हन्त ! सिध्दार्थै स्वः ।
राजा - (कर्णं दत्वा) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य)दौवारिकः – जयतु जयतु भर्ता ! एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ ।
राजा - तेन ह्यविलम्बं प्रवेशय तौ ।
दौवारिकः - एष प्रवेशयामि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य)
इत इतो भवन्तौ ।
(उभौ राजानं विलोकयतः)
प्रथमः - अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा-
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः –
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥
द्वितीयः - गौतम, अयं स बलभित्सखो दुष्यन्तः ?
प्रथमः - अथ किम् ।
द्वितीयः - तेन हि,-
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम्
एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बध्दवैरा हि दैत्यैः
अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ - (उपगम्य) विजयस्व राजन् !
राजा - (आसनादुत्थाय) अभिवादये भवन्तौ ।
उभौ - स्वस्ति भवते । (इति फलान्युपहरतः)
राजा - (सप्रणामं परिगृह्य) आज्ञापयितुमिच्छामि ।
उभौ - विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा - किमाज्ञापयन्ति ?
उभौ -“तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नम्


उत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथी-
क्रियताम् आश्रमः” इति ।
राजा - अनुगृहीतोऽस्मि ।
विदूषकः - (अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा - (स्मितं कृत्वा) रैवतक, मद्वचनादुच्यतां सारथिः -“सबाणासनं
रथमुपस्थापय” इति ।
दौवारिकः- यद्देव आज्ञापयति । (इति निष्क्रान्तः) उभौ –(सहर्षं)
अनुकारिणि पूर्वेषां युक्तरुपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा - (सप्रणामम्)गच्छतां पुरो भवन्तौ । अहमप्यनुपदम् आगत एव ।
उभौ - विजयस्व (इति निष्क्रान्तौ)
राजा - माधव्य, अप्यस्ति शकुन्तलादर्शने कुतूहलम् ?
विदूषकः- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि
नावशेषितः ।
राजा -मा भैषीः । ननु मत्समीपे वर्तिष्यसे
विदूषकः - एष राक्षसाद्रक्षितोऽस्मि ।
(प्रविश्य)
दौवारिकः - सज्जो रथो भर्तुर्विजनप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः
करभक आगतः ।
राजा - (सादरम्) किमम्बाभिः प्रेषितः ?
दौवारिकः- अथ किम् ?
राजा - ननु प्रवेश्यताम् ।
दौवारिकः- तथा । (इति निष्क्रम्य, करभकेण सह प्रविश्य) एष भर्ता ।
उपसर्प
करभकः - जयतु जयतु भर्ता ! देव्याज्ञापयति “ आगामिनि चतुर्थदिवसे
प्रवृत्तपारणो मम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं
सन्निहितेन भवितव्यम्” इति ।
राजा - इतिस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । यद् द्वयमपि
अननिक्रमणीयम् । किमत्र प्रतिविधेयम् ?
विदूषकः - त्रिशङ्कुरिवान्तराले तिष्ठ ।
राजा - सत्यमाकुलीभूतोऽस्मि ।
कृत्ययौर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्त्रोतोवहो यथा ॥९॥
(विचिन्त्य) सखे, त्वमम्बया पुत्र इति प्रतिगृहीतः । यतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्य
मनुष्ठातुमर्हति ।
विदूषकः - न खलु मां रक्षोभीरुकं गणयसि !
राजा - (सस्मितं) कथमेतद्भवति संभाव्यते ?
विदूषकः - यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा - ननु तपोवनोविरोधः परिहरणीय इति सर्वाननुयात्रिकास्त्वयैव सह
प्रस्थापयामि ।
विदूषकः - (स्वगतम्) तेन हि युवराजोस्मीदानीं संवृत्तः ।
राजा - (स्वगतम्) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनाम् अन्तः पुरेभ्यः
कथयेत् । भवतु । एनमेवं वक्ष्ये । (विदूषकं हस्तेगृहीत्वा) वयस्य,
ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां
ममाभिलाषः । पश्य,
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥१८॥
विदूषकः - अथ किम् ।
(इति निष्क्रान्तास्सर्वे )
इति द्वितीयोऽङ्कः

अभिज्ञानशाकुन्तलम् - तृतीयोऽङ्कः

 

अभिज्ञानशाकुन्तलम्
तृतीयोऽङ्कः
कालिदासः
चतुर्थोऽङ्कः →

(ततः प्रविशति कुशानादाय यजमानशिष्यः)
शिष्यः- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्र
भवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसन्धाने ज्याशब्देन दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥१॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
(परिक्रम्यावलोक्य च, आकाशे ) प्रियंवदे, कस्येदमुशिरानुलेपनं
मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? (श्रुतिमभिनीय) किं
व्रवीषि ? “आतपलङ्घनात् बलवदस्वस्था शकुन्तला । तस्याः
शरीरनिर्वापणाय” इति ? तर्हि यत्नात् उपचर्यताम् । सा खलु
भगवतः कण्वस्य कुलपतेरुच्छ्वासितम् । अहमपि तावद्वैतानिकं
शान्त्युदकमस्यै गोतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
विष्कम्भकः
(ततः प्रविशति कामयमानावस्थो राजा)
राजा- (सचिन्तं निःश्वस्य)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥२॥
(मदनबाधां निरुप्य) भगवन् कुसुमायुध, त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः –
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः
द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः
त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३॥
अथवा
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥४॥
(सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः
श्रमक्लान्तमात्मानं विनोदयामि ? (निः श्वस्य) किं नु खलु मे
प्रियादर्शनादृते शरणमन्यत् ? यावदेनामन्विष्यामि । (शूर्यमवलोक्य)
इमाम् उग्रतपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुन्तला गमयति । तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं
रुपयित्वा) अहो, प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥५॥
(परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे
सन्निहितया शकुन्तलया भवितव्यम् । तथा हि ।
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिक्ते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥६॥
यावद्विटपान्तरेणावलोकयामि ।(परिक्रम्य तथा कृत्वा, सहर्षम्)
अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि । (इति विलोकयन् स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
सख्यौ -::(उपवीज्य सस्नेहं) हला शकुन्तले, अपि सुखाय ते
नलिनीपत्रवातः ?
शकुन्तला- किं मां वीजयतः सख्यौ ?
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
राजा- बलवदस्वस्थशरीरा खलु शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि
वर्तते ? (साभिलाषं निर्वर्ण्य) अथवा कृतं सन्देहेन ।
स्तनन्यस्तोशीरं प्रशिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो –
र्न तु ग्रीष्मस्यैवं सुभगमपराध्दं युवतिपु ॥७॥
प्रियंवदा- (जनान्तिकम्)अनसूये, तस्य राजर्षेः प्रथमदर्शनात् आरभ्य
पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को
भवेत् ?
अनसूया –सखि, ममापीदृश्याशङ्का हृदयस्य । भवतु प्रक्ष्यामि तावदेनाम् ।
(प्रकाशम्) सखि, प्रष्टव्यासि किमपि । बलवान् खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय) हला, किं वक्तुकामासि ?
अनसूया – हला, शकुन्तले, अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य ।
किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशी
तव पश्यामि । कथय, किंनिमित्तं ते संतापः ? विकारं खलु
परमार्थतोऽज्ञात्वांनारम्भः प्रतीकारस्य !
राजा- अनसूयामप्यनुगतॆ मदीयस्तर्कः ।
शकुन्तला – (आत्मगतम्) बलवान् खलु मेऽभिनिवेशः ! इदानीमपि सहसैतयोर्न
शक्नोमि निवेदयितुम् ।
प्रियंवदा- सखि, शकुन्तले, सुष्ठु एषा भणति ।
किमात्मन आतङ्कमुपेक्षसे ? अनुदिवसं खलु परिहीयसेऽङ्गैः !
केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा- अवितथमाह प्रियंवदा ! तथा हि, -
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥८॥
शकुन्तला- सखि, कस्य वान्यस्य कथयिष्यामि ? किंत्वायासयित्रीदानीं वां
भविष्यामि ।
उभे- अत एव खलु निर्बन्धः । स्निग्धजन संविभक्तं हि दुःखं सह्यवेदनं
भवति !
राजा-पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण-
मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥९॥
शकुन्तला- सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः –
---------------(इत्यर्धॊक्ते लज्जां नाटयति )
उभे- कथयतु प्रियसखी ।
शकुन्तला- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।
राजा- (सहर्षम्) श्रुतं श्रोतव्यम् !
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥१०॥
शकुन्तला – यद्यपि वामनुमतं,तदा तथा वर्तेथां यथा तस्य राजर्षेः अनुकम्पनीया
भवामि । अन्यथावश्यं सिञ्चितं मे तिलोदकम् ।
राजा- संशयच्छेदि वचनम् !
प्रियंवदा- (जनान्तिकम्) अनसूये, दूरगतमन्मथाऽक्षमेयं कालहरणस्य
यस्मिन् बध्दभावैषा, स ललामभूतः पौरवाणाम् । तद्युक्तमस्या
अभिलाषोऽभिनन्दितुम् ।
अनसूया – तथा यथा भणसि ।
प्रियवंदा- (प्रकाशम्) सखि, दिष्ट्यानुरुपस्तेऽभिनिवेषः । सागरमुज्झित्वा
कुत्र वा महानद्यवतरति ?क इदानीं सहकारमन्तरेण
अतिमुक्तलतां पल्लवितां सहते ?
राजा- किमत्र चित्रम्, यदि विशाखे शशाङ्कलेखामनुवर्तेते !
अनसूया- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं
सम्पादयावः ?
प्रियंवदा- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया – कथमिव ?
प्रियंवदा- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान् दिवसान्
प्रजागारकृशो लक्ष्यते ।
राजा सत्यमित्थंभूत एवास्मि । तथा हि, -
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजान्यस्तापाङ्गप्रसरिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥११॥
प्रियंवदा- (विचिन्त्य) हला, मदनलेखोऽस्य क्रियताम् । तं सुमनोगोपितं
कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।
अनसूया- रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ?
शकुन्तला- को नियोगो वा विकल्प्यते ?
प्रियंवदा- तेन हि आत्मन उपन्यासपूर्वं चिन्तय तावत् किमपि ललितपदबन्धनम् |।
शकुन्तला- हला, चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।
राजा- (सहर्षम्)
अयं स ते तिष्ठति सङ्गमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम्
लभते वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥१२॥
सख्यौ- अयि आत्मगुणावमानिनि, क इदानीं शरीरनिर्वापयित्रीं शारदीं
ज्योत्स्नां पटान्तेन वारयति ?
शकुन्तला- (सस्मितं)नियोजितेदानीमस्मि । (इत्युपविष्टा चिन्तयति)
राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयत्न्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥१३॥
शकुन्तला- हला, चिन्तितं मया गीतवस्तु । असन्निहितानि पुनर्लेखनसाधनानि !
प्रियंवदा- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।
शकुन्तला- (यथोक्तं रुपयित्वा) हला, शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे- अवहिते स्वः ।
शकुन्तला- (वाचयति)
तव न जाने हृदयं मम पुनः कामो दिवापि रात्रिमपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥१४॥
राजा- (सहसोपसृत्य)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१५॥
सख्यौ- (विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाभ्युत्थातुमिच्छति)
राजा- अलमलमायासेन ।
सन्दष्टकुसुमशयनान्या शुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥१६॥
अनसूया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः ।
(राजोपविशति शकुन्तला सलज्जा तिष्ठति )
प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां
पुनरुक्तवादिनीं करोति ।
राजा- भद्रे, नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष
युष्माकं धर्मः ।
राजा- नास्मात्परम् ।
प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता
मदनेनारोपिता ।
राजा- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि
शकुन्तला- (प्रियंवदामवलोक्य) हला, किमन्तः पुरविरहपर्युत्सुकस्य
राजर्षेरुपरोधेन ?
राजा- सुन्दरी,
इदमनन्यपरायणमन्यथा
हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे
मदनबाणहतोऽस्मि हतः पुनः ॥१७॥
अनसूया- वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी
बन्धुजनशोचनीया न भवति तथा निर्वाहय।
राजा- भद्रे, किं बहुना-
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वीं सखी च युवयोरियम् ॥१८॥
उभे- निर्वृते स्वः ।
प्रियंवदा- (सदृष्टिक्षेपम्) अनसूये, एष इतोदत्तदृष्टिरुत्सुको मृगपोतको
मातरमन्विष्यति । एहि संयोजयाव एनम् । (इत्युभे प्रस्थिते)
शकुन्तला- हला, अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभौ- पृथिव्या यः शरणं स तव समिपे वर्तते ।
(इति निष्क्रान्ते)
शकुन्तला- कथं गते एव ?
राजा- अलमावेगेन । नन्वयमाराधयिता जनस्तवसमीपे वर्तते ?
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्
सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥१९॥
शकुन्तला- न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति)
राजा- सुन्दरि, अपरिनिर्वाणो दिवसः, इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥२०॥
(इति बलादेनां निवर्तयति)
शकुन्तला- पौरव, रक्ष विनयम् । मदनसन्तप्तापि न खल्वात्मनः प्रभवामि ।
राजा- भीरु, अलं गुरुजनभयेन । दृष्टा ते विदितधर्मा तत्रभवान्नात्र दोषं
ग्रहीष्यति कुलपतिः । पश्य,
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥२१॥
शकुन्तला- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा- भवतु मोक्ष्यामि ।
शकुन्तला- कदा ?
राजा-
अपरिक्षतकोमलस्य तावत्
कुसुमस्येव नवस्य षट्पदेन
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥२२॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन )
(नेपथ्ये) चक्रवाकवधुके, आमन्त्रयस्व सहचरम् । उपस्थिता रजनी !
शकुन्तला –::(कर्णं दत्वा, ससंभ्रमम्)पौरव, असंशयं मम
शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो
भव ?
राजा- तथा । (इत्यात्मानमावृत्य तिष्ठति )
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ- इत इत आर्या गौतमी ।
गौतमी- (शकुन्तलामुपेत्य )जाने, अपि लघुसन्तापानि तेऽङ्गानि ?
शकुन्तला-आर्ये, अस्ति मे विशेषः ।
गौतमी- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (अभ्युक्ष्य)
वत्से, परिणतो दिवसः । एहि । उटजमेव गच्छामः । (प्रस्थिताः)
शकुन्तला- (आत्मगतम्) हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न
मुञ्चसि । सानुशयविघटितस्य कथं ते सम्प्रतं सन्तापः ? (पदान्तरे
स्थित्वा, प्रकाशम्) लतावलय, सन्तापहारक, आमन्त्रये त्वां
भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
राजा- (पूर्वस्थानमुपेत्य, सनिः श्वासम्) विघ्नवत्यः प्रार्थितार्थसिध्दयः ।
मया हि, -
मुहुरङ्गुलिसंवृताधरोष्ठं
प्रतिषेधाक्षरविक्लवाभिरामम् ॥
मुखमंसविवर्ति पक्ष्मलाक्ष्याः
कथमप्युन्नमितं न चुम्बितं तु ॥२३॥
क्व नु खलु सम्प्रति गच्छामि ? अथवा, इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थापयामि । (सर्वतोऽवलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥२४॥
(आकाशे) राजन् !
सायंतने सवनकर्मणि संप्रवृत्ते
वेदीं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥२५॥
(इति निष्क्रान्तः)
राजा- अयमहमागच्छामि ।
॥ इति तृतीयोऽङ्कः ॥

अभिज्ञानशाकुन्तलम् - प्रथमोsङ्कः

 

अभिज्ञानशाकुन्तलम्
प्रथमोऽङ्कः
कालिदासः
द्वितीयोऽङ्कः →






(श्लोकः)-
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री

ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
(नान्द्यन्ते)
सूत्रधारः – (नेपथ्याभिमुखमवलोक्य) आर्ये, यदि नेपथ्यविधानमवसितम् ।
इतस्तावदागम्यताम् । (प्रविश्य)
नटी - आर्यपुत्र, इयमस्मि ।.
सूत्रधारः – आर्ये अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथि-
तवस्तुना नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यम्
अस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी - सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
सूत्रधारः – आर्ये, कथयामि ते भूतार्थम् ।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥२॥
नटी - आर्य, एवमेतत् अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः - किमन्यदस्याः परिषदः श्रुतीप्रसादनतः ? तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं
ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि,
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥
नटी - तथा
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥४॥
सूत्रधारः – आर्ये, साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो
रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनामाराधयामः ?
नटी - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं
प्रयोगे अधिक्रियतामिति ?
सूत्रधारं - अर्ये, सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया
तत् । कुतः –
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥५॥
(इति निष्क्रान्तौ)
प्रस्तावना
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च )
सूतः - (राजानं मृगं चावलोक्य) आयुष्मन् !
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥६॥
राजा - सूत, दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ 7॥
(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः !
सूतः -आयुष्मन्, उद्घातिनी भूमिरिति मया रश्मिसंयमनाद् रथस्य
मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति
समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजा - तेन हि मुच्यन्तामभीशवः ।
सूतः - यदाज्ञापयत्यायुष्मान् (रथवेगं निरुप्य )
आयुष्मन्, पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोत्थितैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥८॥
राजा - सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि –
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखां नयनयो –
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥९॥
         सूत, पश्यैनं व्यापाद्यमानम् ।(इति शरसन्धानं नाटयति )
(नेपथ्ये) भो भो राजन्, आश्रममृगोऽयं, न हन्तव्यो न हन्तव्यः ।
सूतः - (आकर्ण्यावलोक्य च) आयुष्मन्, अस्य खलु ते बाणपातवर्तिनः
कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
राजा - (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः - तथा (इति रथं स्थापयति)
(ततः प्रविशत्यात्मना तृतीयो वैखानसः)
वैखानसः – (हस्तमुद्यम्य) राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥१०॥

तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥११॥
राजा:: -एष प्रतिसंहृतः ।
वैखानसः- सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरुपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥१२॥
इतरौ - (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा - (सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः- राजन्, समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य
कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः
प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च;
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवालोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१३॥
राजा - अपि सन्निहितोऽत्र कुलपतिः ?
वैखानसः- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः
प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा - भवतु । तामेव द्रक्ष्यामि । सा खलु विदितभक्तिं मां महर्षेः
कथयिष्यति ।
वैखानसः - साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः)
राजा - सूत, चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः - यदाज्ञापयत्यायुष्मान् । इति भूयो रथवेगं निरुपयति ।
राजा - (समन्तादवलोक्य) सूत, अकथितोऽपि ज्ञायत एव यथायमा-
श्रमाभोगस्तपोवनस्येति ।
सूतः - कथमिव
राजा - किं न पश्यति भवान् ? इह हि,
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः
प्रस्निग्धा क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
सूतः - सर्वमुपपन्नम् ।
राजा - (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । इहैव
रथं स्थापय, यावदवतरामि ।
सूतः - धृताः प्रग्रहाः अवतरत्वायुष्मान् ।
राजा - (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं
तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)
सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां
वाजिनः ।
सूतः - तथा । (इति निष्क्रान्तः)
राजा - (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य, निमित्तं सूचयन्)
शान्तमिदमाशमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥
(नेपथ्ये) इत इतः सख्यौ
राजा - (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र
गच्छामि । (परिक्रम्यावलोक्य च) एतास्तपस्विकन्यकाः
स्वप्रमाणानुरुपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवा-
भिवर्तन्ते । (निपुणं निरुप्य) अहो, मधुरमासां दर्शनम् ।
शुध्दान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
शकुन्तला – इत इतः सख्यौ ।
अनसूया – हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतराः
इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामाल-
वालपूरणे नियुक्ता ।
शकुन्तला – न केवलं तातनियोग एव । अस्ति मे सोदस्नेहोऽप्येतेषु (इति
वृक्षसेचनं निरुपयति)
राजा - कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो
य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपु –
स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां च्छेत्तुमृषिव्यवस्यति ॥१७॥
भवतु, पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(इति तथा करोति)
शकुन्तला - सखि अनसूये, अतिपिनध्देन वल्कलेन प्रियंवदया नियन्त्रि-
तास्मि । शिथिलय तावदेतत् ।
अनसूया-तथा (इति शिथिलयति)
प्रियंवदा - अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । (मां
किमुपालभसे?)
राजा - काममननुरुपमस्या वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति ।
कुतः,-
सरसिजमनुविध्दं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥
शकुन्तला - (अग्रतोऽवलोक्य) एव वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां
केसरवृक्षकः, यावदेनं संभावयामि । (इति परिक्रामति)
प्रियंवदा - हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ, यावत् त्वयोपगतया
लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुन्तला – अतः खलु प्रियं –वदासि त्वम्!
राजा - प्रियमपि तथ्यमाह (शकुन्तलां) प्रियंवदा । अस्याः खलु,
अधरः किसलयरागः कोमलविटपानुकारिणी । बाहू
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नध्दम् ॥१९॥
अनसूया - हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया
वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि?
शकुन्तलां - तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च) हला,
रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः ।
नवकुसुमयौवना वनज्योत्स्ना स्निग्घपल्लवतयोपभोगक्षमः
सहकारः ।
प्रियंवदा - अनसूये, जानासि “किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यति”
इति ?
अनसूया - न खलु विभावयामि । कथय ।
प्रियंवदा - यथा वनज्योत्स्नानुरुपेण पादपेन संगता, अपि नामैवमहम-
प्यात्मनोऽनुरुपं वरं लभेय इति ।

शकुन्तला - एष नूनं तवात्मगतो मनोरथः (इति कलशमावर्जयति)
राजा - अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात्? अथवा कृतं
सन्देहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥२०॥
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला - (ससंभ्रमम्)अम्मो ! सलिलसेक संभ्रमोद्गतो नवमालिकामुज्झित्वा
वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां निरुपयति)
राजा - (सस्पृहम्)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनति मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥२१॥
शकुन्तला - न एष धृष्टो विरमति । अन्यतो गमिष्यामि । (पदान्तरे स्थित्वा,
सदृष्टिक्षेपम्) कथमितोऽप्यागच्छति! हला, परित्रायेथां मामनेन
दुर्विनीतेन मधुकरेणाभिभूयमानाम्!
उभे - के आवां परित्रातुम्? दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि
नाम!
राजा - अवसरोऽयमात्मानं प्रदर्शयितुम् । न भेतव्यं न भेतव्यम् ----
(इत्यर्धोक्त्या स्वगतम् ।) राजभावस्त्वभिज्ञातो भवेत् । भवतु,
एवं तावदभिधास्ये ।
शकुन्तला - (पदान्तरे स्थित्वा, सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति!
राजा - (सत्वरमुपसृत्य)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२२॥
(सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः)
अनसूया - आर्य, न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणा-
भिभूयमाना कातरीभूता! (इति शकुन्तलां दर्शयति)
राजा - (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते?
(शकुन्तला साध्वसादवचना तिष्ठति)
अनसूया - इदानीमतिथिविशेषलाभेन । हला शकुन्तले, गच्छोटजम् । फल-
मिश्रमर्ध्यमुपहर । इदं पादोदकं भविष्यति ।
राजा - भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
प्रियंवदा - तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य
परिश्रमविनोदं करोत्वार्यः ।
राजा - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया - हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम् । अत्रोपवि-
शामः । (इति सर्व उपविशन्ति)
शकुन्तला - (आत्मगतम्) किंनु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य
गमनीयास्मि संवृत्ता!
राजा - (सर्वा विलोक्य) अहो! समवयोरुपरमणीयं भवतीनां सौहार्दम्!
प्रियंवदा - (जनान्तिकम्) अनसूये, को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते?
अनसूया - सखि, ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । (प्रकाशम्)
आर्यस्य मधुरालापजनितो विस्त्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः,
किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः?
शकुन्तला - (आत्मगतम्) हृदय, मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया
मन्त्रयते ।
राजा - (आत्मगतम्) कथमिदानीमात्मानं निवेदयामि; कथं वात्मापहारं
करोमि? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति, यः
पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय
धर्मारण्यमिदमायातः ।
अनसूया - सनाथा इदानी धर्मचारिणः ।
(शकुन्तला श्रृङ्गारलज्जां रुपयति)
सख्यौ - (उभयोराकारं विदित्वा, जनान्तिकम्) हला शकुन्तले, यद्यत्राद्य
तातः सन्निहितो भवेत्?
शकुन्तला:: - ततः किं भवेत्?
सख्यौ - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
शकुन्तला - युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं
श्रोष्यामि ।
राजा - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः?
सख्यौ - आर्य, अनुग्रह इवेयमभ्यर्थना ।
राजा - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च
वः सखी तदात्मजेति कथमेतत्?
अनसूया – श्रृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो
राजर्षिः ।
राजा - अस्ति । श्रूयते ।
अनसूया - तमावयोः प्रियसख्याः प्रभवमवगच्छ । तेन उज्झितायाः शरीर-
संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
राजा - उज्झितशब्देन जनितं मे कौतूहलम्! आमूलात् श्रोतुमिच्छामि ।
अनसूया - श्रृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेः उग्रे तपसि
वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः
प्रेषितानियमविघ्नकारिणी ।
राजा - अस्त्येतदन्यसमाधि भीरुत्वं देवानाम् ।
अनसूया - ततो वसन्तोदार - (वसन्तावतार)-समये तस्या उन्मादयितृ
रुपं प्रेक्ष्य……… (इत्यर्धोक्ते लज्जया विरमति )
राजा - परस्ताज्ज्ञायत एव । सर्वथाप्सरसंभवैषा ।
अनसूया - अथ किम् ?
राजा - उपपद्यते ।
मानुषीषु कथं वा स्यादस्य रुपस्य संभवः
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२३॥
(शकुन्तलाधोमुखी तिष्ठति )
राजा - (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्याः परि-
हासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा - (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा )पुनरपि
वक्तुकाम इवार्यः ।
(शकुन्तला सखीमङ्गुल्या तर्जयति )
राजा - सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि
प्रष्टव्यम् ।
प्रियंवदा - अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम !
राजा - इति सखीं ते ज्ञातुमिच्छामि –
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदरेक्षणवल्लभाभि –
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥२४॥
प्रियंवदा - आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या
अनुरुपवरप्रदाने सङ्कल्पः ।
राजा - (आत्मगतम्) न दुरवापेयं खलु प्रार्थना !
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२५॥
शकुन्तला - (सरोषमिव) अनसूये, गमिष्याम्यहम् ।
अनसूया - किं निमित्तम ?
शकुन्तला – इमामसंबध्दप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
अनसूया - सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो
गमनम् ।
(शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव )
राजा - (गृहीतुमिच्छन्निगृह्यात्मानम्, आत्मगतम्) अहो चेष्टाप्रतिरुपिका
कामिजनमनोवृत्तिः । अहं हि,
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२६॥
प्रियंवदा – (शकुन्तलां निरुध्य) हला, न ते युक्तं गन्तुम् ।
शकुन्तला - (सभ्रूभङ्गम्) किं निमित्तम् ?
प्रियंवदा -वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा
ततो गमिष्यसि । (इति बलादेनां निवर्तयति )
राजा - भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथाह्यस्याः-
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा –
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बध्दं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२७॥
तदहमेनामनृणां करोमि (इत्यङ्गुलीयं दातुमिच्छति)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )
राजा - अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयम् ।----
--------------------- इति राजपुरुषं मामवगच्छथ ।
प्रियंवदा - तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेना-
नृणेदानीमेषा । (किञ्चिद्विहस्य) हला शकुन्तले, मोचितास्यनुकम्पिनार्येण ।
अथवा महाराजेन । गच्छेदानीम् ।
शकुन्तला - (आत्मगतम्) यद्यात्मनः प्रभविष्यामि (प्रकाशम्) का त्वं
विस्रष्टव्यस्य रोध्दव्यस्य वा ?
राजा - (शकुन्तलां विलोक्य, आत्मगतम्)किं नु खलु यथा वयमस्या-
मेवमियमप्यस्मान् प्रति स्यात् ? अथवा लब्धावकाशा मे प्रार्थना ।
कुतः;
वाचं न मिश्रयति यद्यपि मे वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥२८॥
(नेपथ्ये) भो भोस्तपस्विनः सन्निहिताः तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः !
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥२९॥
अपि च,
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोक भीतः ॥३०॥
(सर्वाः कर्णं दत्वा किञ्चिदिव संभ्रान्ताः)
राजा - (आत्मगतम्) अहो धिक् ! पौरा अस्मदन्वेषिणः तपोवनमुप-
रुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।
सख्यौ - आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानिहि न
उटजगमनाय ।
राजा - (ससंभ्रमम्)गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति
तथा प्रयतिष्यामहे ।
सख्यौ - आर्य, असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे
आर्यं विज्ञापयितुम् ।
राजा - मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य
सह सखीभ्यां निष्क्रान्ता )
राजा - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान् समेत्य
नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि
शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि –
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३१॥
(इति निष्क्रान्तास्सर्वे)


इति प्रथमोऽङ्कः ।