सोमवार, 25 मार्च 2024
कादम्बरी की कथा
संस्कृतच्छात्रोऽहम्।
वर्तमानसमये प्रयागराजनगरे निवसामि।
मम जन्मस्थानम् - सीतापुर उत्तरप्रदेशः वर्तते।
समपर्कः - 9906142677,
ईमेल- sbbanda90@gmail.com,
बुधवार, 22 जून 2022
अभिज्ञान शाकुन्तलम् "
-महाकवि कालिदासस्य जयन्त्याः अवसरे प्रस्तुतिः-'
"अभिज्ञान शाकुन्तलम् "
शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --
काव्येषु नाटकं रम्यं तत्र रम्य़ा शकुन्तला।
तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।
अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात्
उद्धृतम् ।
नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् ।
इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।
कथा-
पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम्
अकथयत् ।
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं
शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।
कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास ।
यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणॆ किमपि अजानन् इव -
धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥
अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- "महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति" इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव "वेश्यापुत्रि !" इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता - "भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम्" (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति ।
ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - "अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।
शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते ।
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नस्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति ।
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य - "राजन् ! आश्रममृगोऽयं मा हन्यताम्" इति वदन्ति । समीपे विद्यमानं कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम् एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन् तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन शकुन्तला विश्वामित्रमेनकयोः पुत्रीति, ताभ्यां परित्यक्ता शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा सन्तुष्टः भवति ।
एषा क्षत्रियकन्या,
मया परिणेतुं योग्या इति चिन्तयन् मनसि हृष्टः भवति ।
संस्कृतच्छात्रोऽहम्।
वर्तमानसमये प्रयागराजनगरे निवसामि।
मम जन्मस्थानम् - सीतापुर उत्तरप्रदेशः वर्तते।
समपर्कः - 9906142677,
ईमेल- sbbanda90@gmail.com,
शुक्रवार, 22 अक्टूबर 2021
अभिज्ञानशाकुन्तलम् - सप्तमोऽङ्कः-
अभिज्ञानशाकुन्तलम्सप्तमोऽङ्कःकालिदासः |
(ततः प्र-विशति आकाशयानेन रथाधिरुढो राजा मातलिश्च)
राजा- मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषाद्
अनुपयुक्तमिवात्मानं समर्थये ।
मातलिः-(सस्मितम्) आयुष्मन्, उभयमप्यपरितोषम् । कुतः,
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥
राजा- मातले, मा मैवम् । स खलु मनोरथानामप्यभूमिः विसर्जनाव-
सरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य –
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन
आमृष्टवक्षोहरिचन्दनाङ्कः मन्दारमाला हरिणा पिनध्दा ॥२॥
मातलिः- किमिव नामायुष्मान् अमरेश्वरान्नार्हति ! पश्य-
सुखपरस्य हरेरुभयैः मतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥३॥
राजा- अत्र खलु शतक्रतोरेव महिमास्तुल्यः
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणास्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥४॥
मातलिः- सदृशं तवैतत् (स्तोकमन्तरमतीत्य) आयुष्मन्, इतः पश्य
नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखंति ॥५॥
राजा- मातले, असुरसंप्रहारोत्सुकेन पूर्वेधुर्दिवमधिरोहता मया न लक्षितः
स्वर्गमार्गः । कथमस्मिन् मरुतां पथि वर्तामहे ?
मातलिः-
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतीषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य व्यपेतरजसः प्रवहस्य वायोः
मार्गो द्वितीयहरिविक्रम पूत एषः ॥६॥
राजा- मातले, अतः खलु सबाह्यान्तः करणो ममान्तरात्मा प्रसीदति
(रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
मातलिः- कथमवगम्यते ?
राजा-
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः
हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥७॥
मातलिः- क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा- (अधोऽवलोक्य) मातले, वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः । तथा हि –
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥८॥
मातलिः- साधु दृष्टम् । (सबहुमानमवलोक्य ) अहो उदाररमणीया पृथ्वी ।
राजा- मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सान्ध्य
इव मेघपरिधः सानुमानालोक्यते ?
मातलिः – एष खलु हेमकूटो नाम किंपुरुष पर्वतः तपस्संसिध्दिक्षेत्रम् ।
पश्य-
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥
राजा- तेन ह्यतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं
गन्तुमिच्छामि ।
मातलिः- प्रथमः कल्पः !
राजा- (सस्मितम्)
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयाऽनिरुध्दत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥१०॥
मातलिः- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा- मातले, कतमस्मिन् प्रदेशे मारीचाश्रमः ?
मातलिः- (हस्तेन दर्शयन्) पश्य !
वल्मीकार्धनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं विभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥
राजा- नमस्ते कष्टतपसे !
मातलिः- (संयतप्रग्रहं रथं कृत्वा) एतौ अदितिपरिवर्धितमन्दारवृक्षं
प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा- स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहृदमिवावगाढोऽस्मि ।
मातलिः- (रथं स्थापयित्वा) अवतरत्वायुष्मान् ।
राजा- (अवतीर्य मातले, भवान् कथमिदानीम् ?
मातलिः- संयन्त्रितो मया रथः । वयमप्यवतरामः (तथा कृत्वा) इत
आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षो वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं सत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥१२॥
मातलिः- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य, आकाशे) अये
वृध्दशाकल्य किमनुतिष्ठति भगवान् मारीचः ? किं व्रवीषि-
“ दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी सहितायै
कथयति” इति ?
राजा- (कर्णं दत्वा), अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य) अस्मिन्नशोकवृक्षमूले तावदास्ताम् आयुष्मान्
यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा- यथा भवान् मन्यते ।
मातलिः- आयुष्मन्, साधयाम्यहम् । (इति निष्क्रान्तः)
राजा- (निमित्तं सूचयित्वा)-
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥१३॥
(नेपथ्ये) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ?
राजा- (कर्णं दत्वा) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ?
(शब्दानुसारेणावलोक्य, सविस्मयम्) अये को नु खल्वयम्
अनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरमर्दक्लिष्टकेसरम् ।
प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मो तपस्विनीभ्यां बालः )
बालः- जृम्भस्व सिंह, दन्तास्ते गणयिष्ये ।
प्रथमा- अविनीत किं नोऽपत्यनिर्विशॆषाणि सत्वानि विप्रकरोषि ? हन्त !
वर्धते ते संरम्भः । स्थानं खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि ।
राजा- किं नु खलु बालेऽस्मिनौरस इव पुत्रे स्निह्मति मे मनः ?
नूनमनपत्यता मां वत्सलयति !
द्वितीया- एषा खलु केसरिणी त्वां लङ्घयति, यद्यस्याः पुत्रकं न मञ्चसि ।
बालः- (सस्मितम्) अहो बलीयः खलु भीतोऽस्मि ! (अधरं दर्शयति)
राजा- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्पुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥१५॥
प्रथमा - वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
बालः- कुत्र ? देह्येतत् ।
राजा- कथं चक्रवर्तिलक्षणमप्यनेन धार्यत ? तथा ह्यस्य –
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिध्दरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥१६॥
द्वितीया- सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् ।
मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिका-
मयूरोऽस्ति । तमस्योपहर ।
प्रथमा- तथा । (इति निष्क्रान्ता)
बालः- अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति)
राजा- स्पृहयामि खलु दुर्ललितायास्मै ! (निः श्वस्य)
आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीय वचः प्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥१७॥
तापसी- भवतु । मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र
ऋषिकुमाराणाम् ? (राजानमवलोक्य) भद्रमुख, एहि तावत् ।
मोचय अनेन दुर्मोकहस्तग्रहेण डिम्बलीलया बाध्यमानं
बालमृगेन्द्रम् ।
राजा- (उपगम्य, सस्मितम्) अयि भो महर्षिपुत्र !
एवमाश्रमविरुध्दवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥१८॥
तापसी- भद्रमुख, न खल्वयमृषिकुमारः ।
राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तुवयमेवं
तर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य, आत्मगतम्)
अनेन कस्यापि कुलङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
को निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररुढः ॥१९॥
तापसी- (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् ।
राजा- आर्ये, किमिव ?
तापसी- “अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिता अस्मि ।
अपरिचितस्यापि तेऽप्रतिलोभः संवृत्तः” इति ।
राजा- (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य
व्यपदेशः ?
तापसी- पुरुवंशः ।
राजा- (आत्मगतम्) कथमेकान्वयो मम ? अतः खलु मदनुकारिण-
मेनमत्रभवती मन्यते । अस्त्यैतत् पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं
क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकयतिव्रतानि पश्चात्
तरुमूलानि गृहीभवन्ति तेषाम् ॥२०॥
(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः !
तापसी- यथा भद्रमुखो भणति ।अप्सरसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने
प्रसूता ।
राजा- (आत्मगतम्) हन्त ! द्वितीयमिदमाशाजननम् । (प्रकाशम् ) अथ
सा तत्प्रभवती किमारव्यस्य राजर्षेः पत्नी ?
तापसी- कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति ?
राजा- (स्वगतम्) इयंखलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य
शिशोर्मातरं नामतः पृच्छामि अथवा अनार्य परदारव्यवहारः ।
(प्रविश्य मृन्मयूरहस्ता)
तापसी - सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व ।
बालः- (सदृष्टिक्षेपम्) कुत्र वा मम माता?
उभे- नामसादृश्येन विञ्चितो मातृवत्सलः ।
द्वितीया- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा- (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति
पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्णिकेव नाममात्र प्रस्तावो
मे विषादाय कल्पते !
बालः - मातः, रोचते म एष भद्रमयूरः (इति क्रीडनकमादत्ते)
प्रथमा- (विलोक्य सोद्वेगम्) अहो । रक्षाकरण्डकमस्य मणिबन्धे न
दृश्यते ।
राजा- अलमावेगेन – नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति )
उभे- मा खल्वेतदवलम्ब्य--- कथं गृहीतमनेन !
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
राजा- किमर्थं प्रतिषिध्दाः स्मः ?
प्रथमा - श्रृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये
भगवता मारीचेन दत्ता । एनां किल मातापितरावात्मानं च
वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा- अथ गृह्णाति ?
प्रथमा- ततस्तं सर्पो भूत्वा दशति ।
राजा- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे- अनेकशः ।
राजा - सहर्षम् , (आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं
नाभिनन्दामि ! (इति बालं परिष्वजते)
द्वितीया- सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै
निवेदयावः । (इति निष्क्रान्ते)
बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा- पुत्रक, मया सहेव मातरमभिनन्दिष्यसि ।
बालः - मम खलु तातो दुष्यन्तः ! न त्वम् ।
राजा -(सस्मितम्) एष विवाद एव प्रत्याययति !
(ततः प्रविशत्येकवेणीधरा शकुन्तला)
शकुन्तला – विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म
आशासीदात्मनो भागधेयेषु । अथवा, यथा सानुमत्याख्यातं तथा
सम्भाव्यत एतत् ।
राजा -(शकुन्तलां विलोक्य) अये, सेयमत्रभवती शकुन्तला । यैषा –
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुध्दशीला मम दीर्घं विरहव्रतं बिभर्ति ॥२१॥
शाकुन्तला – (पाश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः
क एष इदानीं कृतरक्षामङ्कलं दारकं मे गात्रसंसर्गेण दूषयति ?
बालः- (मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इति आलिङ्गति ।
राजा- प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं,
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला -(आत्मगतम्) हृदय, समाश्वसिहि । समाश्वसिहि ।
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः
राजा - प्रिये, -
स्मृतिभिन्नमोहतमसो दिष्टया –
प्रमुखे स्थितासि मे सुमुखी ।
उपरागान्ते शशिनः समुपगता-
रोहिणी योगम् ॥२२॥
शकुन्तला – जयतु जयत्वार्य - - - (इत्यर्धोक्ते बाष्पकण्ठी विरमति )
राजा- सुन्दरि !
बाष्पेण प्रतिषिध्देऽपि जवशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥२३॥
बालः - मातः कः एषः ?
शकुन्तला- वत्स, ते भागधेयानि पृच्छ ।
राजा- (शकुन्तलायाः पादयोः प्रणिपत्य)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥२४॥
शकुन्तला – उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितरतिबन्धकं पुराकृतं तेषु दिवसेषु
परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि तथाविधः
संवृत्तः । (राजोत्तिष्ठति)
शकुन्तला – अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्याय जनः ?
राजा - उद्घृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बध्दबिन्दुरधरं परिबाधमानः ।
ते तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥२५॥
(राजा यथोक्तमनुतिष्ठति)
शकुन्तला – (नाममुद्रां दृष्ट्वा) आर्यपुत्र, इदं तदङ्गुलीयकम् ।
राजा - अस्मादङ्गुलीयोपलम्भात् खलु स्मृतिरुपलब्धा !
शकुन्तला – विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभम् आसीत् ।
राजा- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।
शकुन्तला – नास्य विश्वसिमि । आर्यपुत्र एवैतध्दारयतु ।
(ततः प्रविशति मातलि )
मातलिः- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च आयुष्मान् वर्धते ।
राजा- अभूत्स्सम्पादितस्वादुफलो मे मनोरथः । मातले, न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ?
मातलिः- (सस्मितम्) किमीश्वराणां परोक्षम् ? एत्वायुष्मान् । भगवान्
मारीचस्ते दर्शनं वितरति ।
राजा- शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं
द्र्ष्टुमिच्छामि ।
शकुन्तला – जिह्नेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजा- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः)
मारीचः- (राजानमवलोक्य) दाक्षायणि !
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥२६॥
अदितिः- संभावनीयानुभावस्याकृतिः !
मातलिः- आयुष्मन्, एतौ पुत्रपीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयत । तावुपसर्प ।
राजा- मातले !
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचि संभवमिदं तत्स्रष्टुरेकान्तरम् ॥२७॥
मातलिः – अथ किम् ?
राजा- (उपगम्य) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
मारीचः – वत्स, चिरं जीव ! पृथ्वीं पालय ।
अदिति - वत्स, अप्रतिरथो भव !
मारीचः- वत्से,
आखण्डलभसो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्त्या न ते योग्या पौलोमी सदृशी भव ॥२८॥
अदितिः- जाते, भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो
भवतु । उपविशत ।
(सर्वे प्रजापतिमभितः उपविशन्ति)
मारीचः – (एकैकं निर्दिशन् )
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रध्दा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥२९॥
राजा- भगवन् प्रागभिप्रेतसिध्दिः, पश्चाद्दर्शनम् ! अतोऽपूर्वः खलु
वोऽनुग्रहः कुतः,-
उदेति पूर्वं कुसुमं ततः फलं धनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥३०॥
मातलिः- एवं विधातारः प्रसीदन्ति ।
राजा- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिना उपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्न-
पराध्दोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुली-
यकदर्शनात् ऊढपूर्वां तद् दुहितरमवगतोऽहम् । तच्चित्रमिव मे
प्रतिभाति ।
यथा गजो नेति समक्षरुपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीति –
स्तयाविधो मे मनसां विकारः ॥३१॥
मारीचः- वत्स, अलमात्मापराधशङ्कया । संमोहोऽपि त्वयि नानुपपन्नः ।
श्रूयताम् ।
राजा- अवहितोऽस्मि ।
मारीचः – यदैवाप्सरतीर्थावतरणात् प्रत्याख्यानवैक्लव्यां शकुन्तलामादाय
मेनका दाक्षायणीमुपगता तदेव ध्यानादवगतोऽस्मि दुर्वाससः
शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नान्यथेति ।
स चायमङ्गुलीयकदर्शनावसानः !
राजा- ( सोच्छवासम्) एष वचनीयान्मुक्तोऽस्मि !
शकुन्तला –(स्वगतम्) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुन शप्तमात्मानं
स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः । अतः सखीभ्यां सन्दिष्टाऽस्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति ।
मारीचः- वत्से विदितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः
कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरुक्षे
भर्तर्यतेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहृतप्रसादे
शुध्दे तु दर्पणतले सुलभावकाशा ॥३२॥
राजा- यथाह भगवान् ।
मारीचः- वत्स , किञ्चिदभिनन्दितस्त्वया विधिवदस्माभिः अनुष्ठितजातकर्मा
पुत्र एष शाकुन्तलेयः ?
राजा- भगवन्, अत्र खलु मे वंशप्रतिष्ठा !
(इति बालं हस्तेन गृह्णाति)
मारीचः – तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य,-
रथेनानुध्दातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरधः ।
इहायं सत्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥३३॥
राजा- भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे !
अदितिः- भगवन्, अस्याः दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्
श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
शकुन्तला- (आत्मगतम्) मनोरथ खलु मे भणितो भगवत्या तपः प्रभावात्
प्रत्यक्षं सर्वमेव तत्र भवतः ।
राजा- अतः खलु मम नातिक्रुध्दो मुनिः ।
मारीचः- तथाप्यसौ प्रियमस्माभिः श्रावयितव्य । कः कोऽत्र भोः ?
(प्रविश्य) शिष्यः – भगवन् अयमस्मि ।
मारीचः- गालव, इदानीमेव विहायसा गत्वा मम वचनात् तत्रभवते कण्वाय
प्रियमावेदय यथा- “पुत्रवती शकुन्तला । तच्छापनिवृत्तौ स्मृतिमत
दुष्यन्तेन प्रतिगृहीता” इति ।
शिष्यः- यदाज्ञापयति भगवान् । (इति निष्क्रान्तः)
मारीचः- वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य
ते राजधानीं प्रतिष्ठस्व ।
राजा- यदाज्ञापयति भगवन् ।
मारीचः- अपि च ।-
तव भवतु बिडौजा प्राज्यवृष्टि प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥३४॥
राजा- भगवन, य्थाशक्ति श्रेयसे यतिष्ये ।
मारीचः- वत्स, किं ते भूयः प्रियमुपहरामि ?
राजा- अतः परमपि प्रियमस्ति ? यदिह भगवान् प्रियं कर्तुमिच्छति
तर्हीदिमस्तु ।
(भरतवाक्यम्)
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम्
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ॥३५॥
(इति निष्क्रान्ताः सर्वे)
-इति सप्तमोऽङ्कः-
संस्कृतच्छात्रोऽहम्।
वर्तमानसमये प्रयागराजनगरे निवसामि।
मम जन्मस्थानम् - सीतापुर उत्तरप्रदेशः वर्तते।
समपर्कः - 9906142677,
ईमेल- sbbanda90@gmail.com,
अभिज्ञानशाकुन्तलम् - षष्ठोऽङ्कः
| अभिज्ञानशाकुन्तलम् षष्ठोऽङ्कः कालिदासः | सप्तमोऽङ्कः → |
(ततः प्रविशति नागरिकः श्यालः, पश्चाद्बध्दं पुरुषमादायरक्षिणैच )
रक्षिणौ-(पुरुषं ताडयित्वा)अरे कुम्भीरक, कथय कुत्र त्वया
एतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः- (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
प्रथमः- किं शोभनो ब्राह्मण इति कृत्वा राज्ञा प्रतिग्रहो दत्तः ?
पुरुषः- श्रृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः ।
द्वितीयः - पाटच्चर, किमस्माभिर्जातिः पृष्टा ?
श्यालः- सूचक, कथयतु सर्वमनुक्रमेण । मौनमन्तरा प्रतिबध्नीतम् ।
उभौ- यदावुत्त आज्ञापयति कथय ।
पुरुषः- अहं जालोङ्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
श्यालः- (विहस्य) विशुध्द इदानीमाजीवः ।
पुरुषः- भर्तः, मा एवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥१॥
श्यालः- ततस्ततः ?
पुरुषः- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् ।
पश्चात् अहमस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । मारयत
वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः- जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निः संशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ- तथा । गच्छ, अरे ग्रन्थिभेदक ।
श्यालः- सूचक, इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदम् अङ्गुलीयकं
यथागमनं भर्ते निवेद्य ततः शासनं प्रतीक्ष्य निष्र्कामामि ।
उभौ- प्रविशत्वावुत्तः स्वामिप्रसादाय ।(निष्क्रान्तः श्यालः)
प्रथमः- जानुक, विरायते खल्वावुत्तः ।
द्वितीयः- नन्ववसरोपसर्पणीया राजानः !
प्रथमः- जानुक, स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनध्दुम् ।
(इति पुरुषं निर्दिशति)
पुरुषः- नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः- (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतिष्येतोमुखो
दृश्यते । गृध्र बलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि ।
(प्रविश्य) श्यालः- सूचक, मुच्यतामेव जलोपजीवी । उपपन्नः खल्वस्याङ्गुली-
यस्यागमः ।
सूचकः- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः ! (इति
पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः- (श्यालं प्रणम्य) भर्तः, त्वदीयं मे जीवितम् ।
श्यालः- एष भर्ताङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः ( इति पुरुषाय
स्वं प्रयच्छति )
पुरुषः- (सप्रणामं प्रतिगृह्य भर्तः अनुगृहितोऽस्मि ।
सूचकः- एषः नामानुग्रह । यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
जानुकः- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन
भवितव्यमिति ।
श्यालः- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन
भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन
आसीत् ।
सूचकः- सेवितं नामावुत्तेन !
जानुकः- ननु भण । अस्य कृते मात्स्यिकमर्तुरिति ।
(इति पुरुषमसूयया पश्यति)
पुरुषः- भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः- एतावद्युज्यते ।
श्यालः- धीवर, महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरी-
साक्षिकमस्माकं प्रथमसोहृदम् इष्यते । तच्छौण्डिकापणमेव
गच्छामः । (इति निष्क्रान्तास्सर्वे)
प्रवेशकः
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
सानुमती- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसान्निध्यं यावत्साधुजन-
स्याभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रक्षीकरिष्यामि ।
मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्त-
मादिष्टपूर्वास्मि । (समन्तादवलोक्य) किं नु खलु ऋतूत्सवे
अपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः
प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया
मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणी-
प्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता)
(ततः प्रविशति चूताङ्गुरमवलोकयन्ती चेटी, अपरा च प्रुष्ठतस्तस्याः)
प्रथमा-
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ।
दष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥२॥
द्वितीय- परभृतिके, किमेकाकिनी मन्त्रयसे ?
प्रथमा- मधुकरिके, चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
द्वितीया- (सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः !
प्रथमा- मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया- सखिं, अवलम्बस्य मां यावदग्रपादस्थिता भूत्वा चूतकलिकां
गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया- अकथितोऽप्येतत् संपद्यते यत एकमेव नौ जीवितं ध्दिधा स्थितं
शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृहणाति । अये,
अप्रतिबुध्दोऽपि चूतप्रसवोऽत्र बन्धभङ्गसुरभिर्भवति ! (इति
कपोतहस्तकं कृत्वा)
त्वमसि मया चूताङ्कुर दत्त कामाय गृहीतधनुषे
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिक शरो भव ॥३॥
(इति चूताङ्कुरं क्षिपति । ततः प्रविशत्यपटीक्षेपेण कुपितः क::ञ्चुकिः)
कञ्चुकी – मा तावदनात्मज्ञे । देवेन प्रतिषिध्दे वसंतोत्सवे त्वमाम्रकलिकाभङ्गं
किमारभसे ?
उभे- (भीते) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी – न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं
प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि, -
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नध्दं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानांरुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टंशरम् ॥४॥
सानुमती- नास्ति सन्देहः । महाप्रभावो राजर्षिः !
प्रथमा- आर्य, कति दिवसन्यावयोमित्रावसुना राष्ट्रियेण भर्तुः पादमूलात्
प्रेषितयोः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् ।
तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेव वृत्तान्तः ।
कञ्चुकी – भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे- आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं, कथयत्वार्यः
किन्निमित्तं भर्ता वसन्तोत्सवः प्रतिषिध्दः ।
सानुमती – उत्सवप्रियाः खलु मनुष्याः ! गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – (स्वगतम्) बहुलीभूतमतत्किं न कथ्यते ?
(प्रकाशं) किमत्रभवत्योः कर्णपथं नायातं शकुन्तला प्रत्यादेशकौलीनम् ?
उभे - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी- तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं
देवेन “सत्यमूढपर्वा मे तत्र भवती रहसि शकुन्तला मोहात्
प्रत्यादिष्टा” इति, तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा
हि-
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः
दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा
गोत्रेषु स्खलितास्तदा भवति च व्रीडाविलक्षश्चिरम् ॥५॥
सानुमती- प्रियं मे
कञ्चुकी- अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे- युज्यते ।
(नेपथ्ये) एतु एतु भवान् ।
कञ्चुकी- (कर्णं दत्वा) अये, इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे- तथा (इति निष्क्रान्ते)
::::(ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः, प्रतिहारी च )
कञ्चुकी- (राजानमवलोक्य) अहो सर्वास्ववस्थासु रमणीयत्वम्
आकृतिविशेषाणाम् ! एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा
हि, -
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरण प्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६॥
सानुमती- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानितापि अस्य कृते
शकुन्तला क्लाम्यति ।
राजा- (ध्यानमन्दं परिक्रम्य)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हृतहृदयं संप्रति विबुध्दम् ॥७॥
सानुमती- ननु ईदृशानि तपस्विन्या भागधेयानि !
विदूषकः- (स्वगतम्) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने
कथं चिकित्सितव्यो भविष्यतीति !
कञ्चुकी- (उपगम्य) जयतु जयतु देवः । महाराज, प्रत्यवेक्षिताः
प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा- वेत्रवति, मद्वचनादमात्यमार्यपिशुनं ब्रूहि, -चिरप्रबोधान्न
संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं
पौरकार्यमार्येण तत्पत्रमारोप्य दीयतां इति ।
प्रतीहारी- यद्देव आज्ञापयति । (निष्क्रान्ताः)
राजा- वातायन, त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी – यदाज्ञापयति देवः । (इति निष्क्रान्तः)
विदूषकः – कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेद-
रमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजा- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तदव्यभिचारि वचः ।
कुतः –
मुनिसुता प्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥८॥
विदूषकः- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )
राजा- (सस्मितम्) भवतु । दृष्टं बह्मवर्चसम् । सखे, कोपविष्टः प्रियायाः
किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ?
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा –
“माधवीमण्डप इमां वैलामतिवाहयिष्ये । तत्र मे चित्रफलकगतं
स्वहस्तलिखिता तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय” इति ।
राजा- ईदृशं हृदयविनोदनस्थानम् ! तत्वमेव मार्गमादेशय ।
विदूषकः – इत इतो भवान् ।
::(उभौ परिक्रामतः । सानुमत्यनुगच्छति ।)
विदूषकः- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया
निःसंशयं स्वागतेनैव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेश कृत्वोपविष्टौ )
सानुमती- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै
भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता)
राजा- सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम्
कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो
नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं तत्रभवत्या नाम ।
कञ्चित् अहमपि विस्मृतवानसि त्वम् ?
विदूषकः – न विस्मरामि । किं तु सर्वंकथयित्वावसाने पुनस्त्वया
“परिहासविजल्प एष न भूतार्थः “इत्याख्यातम् । मयापि
मृत्पिण्डबुध्दिना तथैव गृहीतम् । अथवा भवितव्यानि खलु
बलवती !
सानुमती- एवं न्विदम् ।
राजा- (ध्यात्वा) सखे, त्रायस्व, माम् ।
विदूषकः- भोः किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः
शोकावास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
राजा- वयस्य, निराकरण विक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि । सा हि,
इतः प्रत्यादेशात्स्वजनमनुगन्तुं, व्यवसिता
स्थिता तिष्ठेत्युच्चेर्वदति गुरुशिष्ये गुरु समे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥९॥
सानुमति – अहो ईदृशो स्वकार्यपरता ! अस्य सन्तापेनाहं रमे ।
विदूषकः- अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति ।
राजा- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत ? मेनका किल सख्यास्ते
जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे
हृदयमाशङ्कते ।
सानुमती – सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः- यद्येवम्, अस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा- कथमिव ?
विदूषकः- न खलु मातापितरौ भर्तुवियोगदुःखितां दुहितरं चिरं द्र्ष्टुं पारयतः ।
राजा- वयस्य, -
स्वप्नो नु मया नु मतिभ्रमो नु
क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते
मनोरथा नाम तटप्रपाताः ॥१०॥
विदूषकः- मैवम् । नत्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमौ
भवतीति ।
राजा- (अङ्गुलीयकं विलोक्य) अये, इदं तावदसुलभस्थाभ्रंशि
शोचनीयम् !
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेना ।
अरुण नखमनोहरासु तस्याश्च्युतमसि लब्दपदं यदङ्गुलीषु ॥
सानुमती- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः – भोः, इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता ?
सानुमती – ममापि कौतूहलेनाकारिता एषः ।
राजा- श्रूयतां । तपोवनात्स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह –
“कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति?” इति ।
विदूषकः- ततस्ततः
राजा- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥१२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती – रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः- अथ कथं धीवरकल्पितस्य रोहितमत्स्योदराभ्यन्तरे आसीत् ?
राजा- शचितीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्त्रोतसि परिभ्रष्टम् ।
विदूषकः – युज्यते ।
सानुमती- अत एव तपस्विन्या शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये
सन्देहः आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते;-
कथमिवैतत् ?
राजा- उपलप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः- (आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा-
कथ नु तं बन्धुरकोमलाङ्गुलिं
करं विहायासि निमग्नमम्भसि ?
अचेतनं नाम गुणं न लक्षयेत्
मयैव कस्मादवधीरिता प्रिया ॥१३॥
विदूषकः- (आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि !
राजा- प्रिये, अकारणापरित्यागानुशयतप्तहृदयस्तावदनुकतामयं जनः
पुनर्दर्शनेन ।
(ततः प्रविशत्ययटीक्षेपेण चित्रफलकहस्ता चतुरिका)
चतुरिका- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति)
विदूषकः – (विलोक्य) साधु, वयस्य मधुरावस्थानदर्शनीयो भवानुप्रवेशः
स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती- अहो राजर्षिपुणता ! जाने सख्यग्रतो मे वर्तते इति ।
राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥१४॥
सानुमती- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः – भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः
कतमाऽत्र तत्र भवती शकुन्तला ?
सानुमती – अनभिज्ञः खल्वीदृशस्य रुपस्य मोघदृष्टिरयं जनः ।
राजा- त्वं तावत्कतमां तर्कयसि ?
विदूषकः – तर्कयामि यैषा शिथिलबन्धनोद्वान्त कुसुमेन केशान्ते-
नोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामव-
सेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्ते-
वालिखिता, सा शकुन्तलाः इतरे सरव्याविति ।
राजा- निपुणो भवान् । अस्त्यत्र मे भावचिन्हम् ।
खिन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥१५॥
चतुरिके, अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा- अहमेवैतदवलम्बे । (यथोक्तं करोति निष्क्रान्ता चैव)
राजा- (निःश्वस्य)
साक्षात्प्रियामुपगतामपहाय पूर्वं
चित्रार्पितामहमिमां बहुमन्यमानः ।
स्त्रोतोवहां पयि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥१६॥
विदूषकः – (आत्मगतम्) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः ।
(प्रकाशम्) भोः । अपरं किमत्र लिखितव्यम् ?
सानुमती – यो यः प्रदेशः सख्याः मेऽभिरुपस्तं तमालेखितुकामो भवेत् ।
राजा- श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः
श्रृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥
विदूषकः – (आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं
लम्बकूर्चानां तापसानां कदम्बैः ।
राजा- वयस्य अन्यञ्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः ।
विदूषकः – किमिव ?
सानुमती – वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा-
कृतं न कर्णार्पितबन्धनं सखे
शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं
मृणालसूत्रं रचितं स्तनान्तरे ॥१८॥
विदूषकः – भोः किं नु तत्रभवति रक्तकुवलयपल्लवशेभिनाग्रहस्तेन
मुखमावार्य चकित चकितेव स्थिता ? (सावधानं निरुप्य,
दृष्ट्वा) आः । एष दास्याः पुत्रः कुसुमरसपाटञ्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः ।
राजा- ननु वार्यतामेष धृष्टः !
विदूषकः – भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
राजा- युज्यते । अयि भो कुसुमलताप्रियातिथे, किमत्र् परिपतनखेदमनु-
भवसि ?
एषा कुसुमनिषण्णा तृषितापि सतो भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥
सानुमती – अद्याभिजातं खल्वेष वारितः ।
विदूषकः – प्रतिषिध्दापि वामैषा जातिः ।
राजा- एवं भो न मे शासने तिष्ठति ? श्रूयतां तर्हि संप्रति;
अक्लिष्टबालतरुपल्लवलोभनीयं
पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायाः
त्वां कारयामि कमलोदरबन्धनस्थम् ॥२०॥
विदूषकः – एवं तीक्ष्णदण्डस्य किं न भेष्यति ? (प्रहस्य, आत्मगतम्)
एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृश वर्ण इव संवृत्तः ।
(प्रकाशम्) भोः चित्रं खल्वेतत् !
राजा- कथं चित्रम् ?
सानुमति – अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः ।
राजा- वयस्य, किमिदमनुष्ठितं पौरोभाग्यम् ?
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥२१॥
(इति बाष्पं विहरति)
सानुमती – पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा- वयस्य, कथमेवमविश्रान्तदुः खमनुभवामि ?
प्रजागरात्खिलीभूतस्तस्याः स्वप्नं समागमः ।
बाष्पस्तु न ददात्येनां द्र्ष्टुं चित्रगतामपि ॥२२॥
सानुमती – सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलाय ।
(प्रविश्य) – चतुरिका – जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि ।
राजा- किं च ?
चतुरिका – स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्य-
पुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः – दिष्ट्या त्वं मुक्ता !
चतुरिका – यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित
आत्मा ।
राजा- वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं
रक्षतु ।
विदूषकः – आत्मानमिति भण (चित्रफलकमादायोत्थाय च) यदि भवानन्तः-
पुरकूटवागुरातो मोक्ष्यते, तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।
सानुमती – अन्यसंक्रान्तहृदयोऽपि प्रथम सम्भावनामपेक्षते । अतिशिथिल-
सौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता) प्रतीहारी- जयतु जयतु देवः ।
राजा- वेत्रवती, न खल्वन्तरा दृष्टा त्वया देवी ?
प्रतीहारी – अथ किम् ? पत्र हस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा- कार्यज्ञा- कार्योपरोधं मे परिहरति ।
प्रतीहारी – देव, अमात्यो विज्ञापयति- “अर्थजातस्य गणनाबहुलतयैकमेव
पौरकार्यमवेक्षितं; तद्देवः पत्रारुढं प्रत्यक्षीकरोतु” इति ।
राजा- इतः पत्रं दर्शय । (प्रतीहार्युपनयति)
राजा- (अनुवाच्य) कथम् ? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम
नौव्यसने विपन्नः ! अनपत्यश्च किल तपस्वी ! राजगामी
तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् ।कष्टं खल्वनपत्यता ।
वेत्रवति, बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।विचार्यतां
यदि काचिदापन्नसत्वा तस्य भार्यासु स्यात् ।
प्रतीहारी – देव, इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य
श्रूयते ।
राजा- ननु गर्भः पित्रयं रिक्थमर्हति ! गच्छ । एवममात्यं ब्रूहि ।
प्रतीहारी – यद्देव आज्ञापयति ।
राजा- एहि तावत् ।
प्रतीहारी – इयमस्मि ।
राजा- किमनेन सन्ततिरस्ति नास्तीति ?
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥२३॥
प्रतीहारी – एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य) काले
प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजा-(दीर्घमुष्णं च निः श्वस्य) एवं भो । सन्ततिच्छेदनिरवलम्बना
कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते
पुरुवंशश्रियः एष एव वृत्तान्तः ।
प्रतीहारी – प्रतिहतममङ्गलम् ।
राजा- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती – असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा- संरोपितोऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥२४॥
सानुमती – अपरिच्छिन्नेदानीं ते सन्ततिर्भविष्यति ।
चतुरिका – आर्य, अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्य गृहीत्वागच्छ ।
प्रतीहारी – सुष्ठु भणसि ।
राजा- अहो, दुष्यन्तस्य संशयमारुढाः पिण्डभाजः । कुतः;
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशेषमुदकं पितरः पिबन्ति ॥२५॥
चतुरिका – (ससंभ्रममवलोक्य) समाश्वसितु, समाश्वसितु भर्ता ।
सानुमती- हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्ध-
कारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि ? अथवा,
श्रुतं मया शकुन्तलां समाश्वसन्त्या महेन्द्रजनन्याः
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति तथाऽचिरेण धर्मपत्नीं
भर्ताभिनन्दिष्य-तीति । तद्युक्तमेतं कालं प्रतिपालयितुम् ।
यावदनेनवृत्तान्तेन प्रियसखीं समाश्वासयामि ।
(इत्युद्भ्रान्तकेन निष्क्रान्ता)
(नेपथ्ये) अब्रह्मण्यम् ।
राजा- (प्रत्यागतः कर्णं दत्वा) अये, माधव्यस्येवार्तस्वरः । कः कोऽत्र्
भोः ?
(प्रविश्य) प्रतीहारी – (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् ।
राजा- केनात्तगन्धो माणवकः ?
प्रतीहारी – अदृष्टरुपेण केनापि सत्येनातिक्रम्य मेघप्रतिच्छन्दस्य
प्रासादस्याग्रभूमिमारोपितः ।
राजा- (उत्थाय) मा तावत् ममापि सत्वैरभिभूयन्ते गृहाः । अथवा,-
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥२६॥
(नेपथ्ये) भो वयस्य, अविहा ! अविहा !
राजा- (गतिभेदेन परिक्रामन्) सखे, न भेतव्यम् ।
(नेपथ्ये) पुनस्तदेव पठित्वा कथं न भेष्यामि ? एष मां कोऽपि
प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।
राजा- (सदृष्टिक्षेपम्) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता) यवनी- भर्तः । एतध्दस्तावापसहितं
शरासनम् । राजा सशरं धनुरादत्ते ।
(नेपथ्ये)
एष त्वामभिनवकण्ठशोणितार्थी
शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवत्विदानीम् ॥२७॥
राजा- (सरोषम्) कथं मामेवोद्दिशति ? तिष्ठ, तिष्ठ कुणपाशन्, त्वमिदानीं
न भविष्यसि ? (शार्ङ्गमारोप्य)वेत्रवति, सोपानमार्गमादेशय ।
प्रतीहारी- इत इतो देवः (सर्वे सत्वरमुपसर्पन्ति)
राजा- (समन्ताद्विलोक्य) शून्य खल्विदम् ।
(नेपथ्ये)- अविहा ! अविहा ! अहमत्र भवन्तं पश्यामि । त्वं मां न पश्यसि ।
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा- भोस्तितस्करिणीगर्वित । मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं
सन्दधे, -
यो हनिष्यति बध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥२८॥
(इत्यस्त्रं संधत्ते । ततः प्रविशति विदूषकमुत्सृज्य मातलिः विदूषकश्च )
मातलिः- कृता शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥
राजा- (ससंभ्रममस्त्रमुपसंहरन्) अये मातलिः ! स्वागतं महेन्द्रसारथे ।
विदूषकः- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेन अभिनन्द्यते ।
मातलिः- (सस्मितम्) आयुष्मन्, श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं
प्रेषितः ।
राजा- अवहितोऽस्मि ।
मातलिः- अस्ति कालनेमिप्रसूतिर्दुर्जयोः नाम दानवगणः ।
राजा- अस्ति श्रुतपूर्वं मया नारदात् ।
मातलिः- सख्युस्ते स किल शतक्रतोरजय्य-
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥
स भावनात्तशस्त्र एव इदानीमैन्द्रस्यमारुह्य विजयाय प्रतिष्ठताम् ।
राजा- अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माधव्यं प्रति
भवता किमेव प्रयुक्तम् ?
मातलिः- तदपि कथ्यते ।किञ्चिन्निमित्तादपि मनः सन्तापात् आयुष्मान्
मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मंत्त तथा कृतवान्
अस्मि । कुतः;
ज्वलति चलितेन्धनोऽग्विर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥३१॥
राजा- (जनान्तिकम्) वयस्य, अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र
परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अदिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥३२॥ इति ।
विदूषकः – यद्भवानाज्ञापयति । (इति निष्क्रान्तः)
मातलिः- आयुष्मान् रथमारोहतु । (राजा रथारोहणं नाट्यति )
(इति निष्क्रान्तः सर्वे)
इति षष्ठोऽङ्कः
संस्कृतच्छात्रोऽहम्।
वर्तमानसमये प्रयागराजनगरे निवसामि।
मम जन्मस्थानम् - सीतापुर उत्तरप्रदेशः वर्तते।
समपर्कः - 9906142677,
ईमेल- sbbanda90@gmail.com,


