सोमवार, 13 मार्च 2023

वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति - दीनदयालशुक्लः

sanskritpravah

Listen to this article

-आचार्यदीनदयालशुक्लः

कानपुर । भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति । दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् , एतत्विचारान् स्वजीवने अङ्गीकृतस्य उत्तरप्रदेशसंस्कृतसंस्थानाध्यक्षस्य डॉ. वाचस्पतिमिश्रमहोदयस्य सानिध्ये ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य कक्षा: सञ्चाल्यन्ते।

उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रथम/द्वितीयस्तरस्य कक्षासु बालका: न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति अपितु ते सर्वेऽपि आचरणं व्यवहारञ्चापि कुर्वन्ति । आसु कक्ष्यासु ते नियमितं समुपस्थिताः भवन्ति। संस्कृतसमुपासकाः तथा वाग्देव्याराधनेकृतसङ्कल्पवता संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति। येन तेषु संस्कार: व्यवहार: कृतज्ञता, समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति ।

अस्य प्रत्यक्षप्रमाणं वयं संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्ष्यासु दृष्टुं शक्नुमः । प्रत्येकस्मिन् मासे एकं सत्रं प्रचलति । इदं सत्रम् अस्य अगस्तमासस्य तृतीयदिनाङ्कतः अगस्तमासस्य षड्विंशतिदिनाङ्कपर्यन्तं भविष्यति। प्रतिदिनं सायंकाले अष्टवादने प्रशिक्षकेण दीनदयालशुक्लेन सञ्चालित ऑनलाइनकक्षायां (Online Google Meet द्वारा) प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना ध्येयमन्त्र: च भवति । ते मिलित्वा एव स्वस्य अभ्यासं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रं भवति।

अस्मिन् सत्रे आहत्य पञ्चाशताधिका: छात्रा: उपस्थिता: भवन्ति। संस्थानस्य निदेशकः आइएएस पवन कुमारः, अध्यक्षः डॉ वाचस्पति मिश्रः, प्रशासनिकः अधिकारी दिनेश मिश्रः, सर्वेक्षिका डॉ चन्द्रकला शाक्या, इत्यादीनां मार्गदर्शनं कक्ष्यासु भवति। ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति। परीक्षायाम् उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यम्न प्रेषणव्यवस्था अस्ति। ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानलिंक् “https://sanskritsambhashan.com/secondlevelreg.php“इत्यस्ति। शीघ्रमेव पञ्जीकरणं कुर्वन्तु ।





https://sanskritvarta.in/2022/08/10/uttar-pradesh-sanskrit-institute-spreads-sanskrit-even-abroad-deendayal-shukla/

कोई टिप्पणी नहीं: