गुरुवार, 13 जुलाई 2023

श्लोकचतुष्टयम्।।

sanskritpravah

।। महाकवि कालिदासस्य श्लोकचतुष्टयम्।।




कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् ।।
तत्रापि च चतुर्थोऽङ्को यत्र याति शकुन्तला।
तत्रापि च चतुर्थोऽङ्कः तत्र श्लोकचतुष्टयम्।।

यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठस्स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडन्दर्शनम्।
वैक्लव्यम्मम तावदीदृशमिदं स्नेहादरण्यौकसः।
पीड्यन्ते गृहिणः कथन्नु तनयाविश्लेषदुःखैर्नवैः।।४•६।।

पातुन्न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।।४•९।।

अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलञ्चात्मन-
त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिञ्च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियन्दारेषु दृश्या त्वया
भाग्यायत्तमतः परन्न खलु तद्वाच्यं वधूबन्धुभिः।।४•१७।।

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपङ्गमः।
भूयिष्ठम्भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवङ्गृहिणीपदं युवतयो वामा: कुलस्याधयः।।४•१८।।

कोई टिप्पणी नहीं: